________________
कुमारपाल
प्रबन्ध
॥५८॥
ततः कुमारो निर्गत्य प्रतिष्ठानपुरेगमत् । द्विपञ्चाशद्वीरकपाद्याश्चर्याणि व्यलोकयत् ॥ ४२ ।। प्राप्तः क्रमेणोजयिन्यां निजस्वजनसंनिधौ । भ्रमंस्तत्रान्यदा प्राप्तः कुण्डगेश्वरमन्दिरे ॥ ४३ ॥ प्रणम्य लिङ्गं तन्मध्ये श्रीपार्श्व फणमण्डितम् । वीक्ष्य प्रशस्तिमध्ये तु गाथामेकामवाचयत् ॥ ४४ ।।
पुण्णे वाससहस्से, सयंमि वरिसाणनवनवइकलिए । होही कुमरनरिंदो, तुह विक्कमराय ! सारिच्छो ।। १ ।। आत्मनो नाम साम्यं च वर्षाणां वीक्ष्य पूर्णताम् । कुमारोऽपृच्छद्गाथार्थ कस्यापि वृद्धसंनिधौ ।। ४५ ॥ सोऽप्याह पूर्वमत्रासीसिद्धसेनो दिवाकरः। विक्रमादित्यभूपस्य तेनाभ्यर्थनया किल ॥ ४६ ।। द्वात्रिशड्वात्रिंशकाभिर्वीतरागः स्तुतस्ततः । कुण्डगेश्वरलिङ्गं तु स्फुटितं तस्य मध्यतः ॥ ४७ ।। आविरासीद्धरणेन्द्रः श्रीपार्श्वप्रतिमाधरः । तं दृष्ट्वा विक्रमादित्यः संजातः परमार्हतः ।। ४८ ।। गुरुपदेशतस्तेन कारितं भूमिमण्डलम् । अनणं निजदानेन ततः सव्वत्सरोऽस्य तत् ॥ ४९ ।। तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते । अतः परं जिनभक्तः सार्वभौमो भविष्यति ॥ ५० ॥ श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता । राज्ञा च लेखिताऽत्रंव तच्छ् त्वा कुमरोऽवदत् ॥ ५१ ।। आर्हतानामहो ! शक्तिरहो ! ज्ञान2 महो ! व्रतम् । अहो ! परोपकारित्वं किममीषां हिताद्भुते ।। ५२ ॥ ततः स्वजनभोपल्लदेवीवोसिरिभिः समम् । धृत्वा निर्झरवेषं तु उज्जयिन्या विनिर्ययौ ।। ५३ ।।
ततो दशपुरं नगरं गतः। तत्र बहिरुद्यानेऽध्वनि मिलितं नासाग्रबिन्यस्तलोचन पद्मासनासीन कमपि योगिन निरुपमशममयं दृष्ट्वा कुमारोऽचिन्तयत् । यथा