________________
॥५७॥
पुनः । पण्डितैः पुस्तकेष्वेष लिखितोऽर्थः सविस्तरः ।। ३० ।। राज्ञेऽदर्शि नृपोऽप्याह सत्यमेतच्छिरो यदि । श्रुत्वैनमर्थं न पुनः सरसो निस्सरिष्यति ।। ३१ ।। तथाकृते तथाजाते चैत्यं निर्माय भूभुजा । देवस्थाने स्थापितं च शीर्षमेतत्प्रसिद्धये ।। ३२ ।। तत् श्रुत्वा विविधाश्चर्यदर्शनाज्जातविस्मयः । किंचित्कालं कुमारोऽपि कान्त्यां स्थित्वा पुनर्ययौ ।। ३३ ।। मल्लीनाथजनपदे स्थितः कोलम्बपत्तने । महालक्ष्म्याथ कोलम्बस्वामी स्वप्ने न्यगद्यत ।। ३४ ।। भविष्यो गूर्जरत्रायाः स्वामी यस्तव पत्तने । समेष्यति जटाधारी विधेया भक्तिरस्य तु ।। ३५ ।। नृपमुक्तैश्चतुर्दिक्षु पुरुषः पुरसीमनि । यथोक्तलक्षणैवक्ष्य कुमारो भक्तिपूर्वकम् ।। ३६ ।। आहूय नृपतेः पार्श्वे समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीयार्द्धासने तं च न्यवेशयत् ।। ३७ ।। निगद्य लक्ष्म्या आदेशं राज्ञा राज्ये निमिन्त्रितः । निषिध्य कुमरस्तस्य पार्श्वे तस्थौ यथासुखम् ।। ३८ ।। सोचे तथाऽपि तेऽभीष्टं कुमार ! किं करोम्यहम् । कुमारः प्राह येनात्र ज्ञायते मे समागमः ।। ३९ ।। दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरे । भूमिमप्राप्य राजाऽथ संकोच्य निजमन्दिरम् ।। ४० ।। कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः । कुमारपालनामाङ्कं नाणकं च प्रवर्तितम् ।। ४१ ।।
तद्दृष्ट्वा कुमारः प्रमुदितश्चिन्तितवान् । अहो ! अस्य परमा प्रीतिः --
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ १ ॥ वचनं खलु वञ्चनं हि तत्, प्रतिपत्तिर्विफला यदुद्भवा । वचनैरुपचारकोमलैः, फलहीनैर्वेद किं प्रयोजनम् ? ॥ २ ॥ इयमत्र सतामलौकिकी, महती काऽपि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ।। ३ ।।
114