SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कुमारपाल 114811 तत्ततस्तावावोचन् किं चित्रमत्र यत् । वेण्याघर्षोऽस्ति पृष्ठेऽस्य स्कन्धे कुण्डलयोः किणे ।। १५ ।। आनाभिहृदि गौरत्वं दृश्यते दीर्घकूर्चतः। तांम्बूलव्यसनाच्चास्याङ्गुष्ठवर्णेन चर्चितः ।। १६ ।। नित्यं विरलदन्तानां क्षित्या रक्ता कनिष्ठिका । तत् श्रुत्वाऽचिन्तयदसौ बहुरत्ना वसुन्धरा ।। १७ ।। कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे । तीरदेवकुले गत्वाऽर्च्यमानं ददृशे शिरः ।। १८ ।। तस्य प्रवृत्ति पृष्टश्च कश्चन स्थविरोऽवदत् । सरसोहपुरे राजमकरध्वजकारिते ।। १९ ।। पद्मकोशाद्विनिर्गत्य शीर्षमेकं सकुण्डलम् । एकेन बुडतीत्युक्त्वा तन्निमञ्जति प्रत्यहम् ।। २० ।। तदर्थं पण्डितैः पुष्टैर्लब्ध्वा मासचतुष्टयम् । तं ज्ञातुं प्रेषिताः विप्रा विदेशे बृद्धसंनिधौ ।। २१ ।। यदेकस्थविरो वेत्ति न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति वृद्धवाक्यात्स पूज्यते ।। २२ ।। तैश्च गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छत । स्वपिता दर्शितस्तेन तेनापि स्वपितामहः ।। २३ ।। सविंशतिशत वर्षदेशीयस्य च सन्निधौ । विप्रैरपृच्छि शीर्षस्य ब्रुडतीत्युक्तिकारणम् ।। २४ ।। सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् । गृह्णीतेदं महामूल्यं शुद्धयत्यध्वव्ययो यतः ।। २५ ।। लोभाद्विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् । गन्तुकामा वृद्धमूचुः संदेहं ब्रूहि नो द्रुतम् ।। २६ ।। संशयच्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः । कथं स ऊचे शास्त्रज्ञा अप्येतदपि वित्थ न ।। २७ ।। यदुक्तम् श्वान गर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवलकं चैव सचैलस्नानमाचरेत् ।। १ ।। शास्त्रे निषिद्धः संस्पर्शो विप्राणां युज्यते कथम् । तेऽप्यूचुर्बहुमूल्यानि श्वडिम्भानि त्वमभ्यधाः ।। २८ ।। ततोऽस्माभिगृहीतानि लोभाद्धि क्रियते न किम् ? । ऊचे वृद्धस्तदेवेदं विश्वं ब्रूडति लोभतः ।। २९ ।। इति ते छिन्नसंदेहाः कुमारेहागताः प्रबन्ध: ॥५६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy