SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शकुनमार्गणं कृतम् । तत्र-- तदैव परिपुष्टाङ्गी श्यामा च स्वीकृताशना । मुनिसुव्रतनाथस्य प्रासादमधितस्थुषी ।। १ ।। शुभचेष्टाकरा दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरश्रयं च कलशे दण्डे स्वरचतुष्टयम् ।।२।। हृष्टः शाकुनिकः प्राह सिद्धिस्ते वाञ्छिताधिका । भविष्यति विशेषेण जिनभक्तिप्रभावतः ।। ३ ।। ततः कोल्लापुरं गत्वा दानभोगादिसद्गणम् । सर्वार्थसिद्धियोगीन्द्र सेवित्वा तमतोषयत् ।। ४ ।। उवाच योगी मन्त्री स्त एकः साम्राज्यदायकः। स्वेच्छया धनदाताऽन्य आधः सोपद्रवः पुनः ।। ५ ।। सत्त्वसारः कुमारोऽथ मन्त्रं जग्राह राज्यदम्। उक्तेन तेन विधिना पूर्वसेवा व्यधत्त सः ।। ६ ।। ततः कृष्णचतुर्दश्यां गत्वा पितृवनं निशि । शबस्य वक्षसि न्यस्य वह्निकूण्डं स्वय पुनः ॥ ७॥ उपविश्य तस्य कठ्यां यावद्धोमं ददाति सः । करालमूर्तिः प्रत्यक्षस्तावत्क्षेत्राधिपोऽवदत् ॥८॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमर्षणा । इति श्रुत्वाऽपि निःक्षोभः सोऽपि जापं समापयत् ।। ९ ।। तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत । गूर्जरत्राधिपत्यं ते धीर! दत्तं मयाऽखिलम् ॥१०॥ परमद्यतनादिनात्पञ्चवर्षात् फलिष्यति मनोरथः ।। सिद्धमन्त्रः कुमारोऽथ नत्वा तं योगिपुङ्गवम् । कल्याणकारके देशे क्रमाकान्तीपुरीं ययौ ॥ ११॥ कुमारः कौतुकात्तस्या भ्रमन् परिसरेऽन्यदा। कबन्धमेकमद्राक्षीत् वैरिणाऽपास्तमस्तकम् ।। १२॥ तत्पार्श्वे मिलितस्त्रीणां शुश्रावान्योन्यजल्पितम् । अहो ! कचकलापोऽस्य अहो! श्रवणलम्बता ॥ १३ ॥ अहो ! घनत्वं कूर्चस्य ताम्बूले व्यसनं तथा । अहो ! विरलदन्तत्वं श्रुत्वेत्येका ततो जगौ ।। १४ ।। कथमे
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy