________________
शकुनमार्गणं कृतम् । तत्र--
तदैव परिपुष्टाङ्गी श्यामा च स्वीकृताशना । मुनिसुव्रतनाथस्य प्रासादमधितस्थुषी ।। १ ।। शुभचेष्टाकरा दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरश्रयं च कलशे दण्डे स्वरचतुष्टयम् ।।२।। हृष्टः शाकुनिकः प्राह सिद्धिस्ते वाञ्छिताधिका । भविष्यति विशेषेण जिनभक्तिप्रभावतः ।। ३ ।। ततः कोल्लापुरं गत्वा दानभोगादिसद्गणम् । सर्वार्थसिद्धियोगीन्द्र सेवित्वा तमतोषयत् ।। ४ ।।
उवाच योगी मन्त्री स्त एकः साम्राज्यदायकः। स्वेच्छया धनदाताऽन्य आधः सोपद्रवः पुनः ।। ५ ।। सत्त्वसारः कुमारोऽथ मन्त्रं जग्राह राज्यदम्। उक्तेन तेन विधिना पूर्वसेवा व्यधत्त सः ।। ६ ।। ततः कृष्णचतुर्दश्यां गत्वा पितृवनं निशि । शबस्य वक्षसि न्यस्य वह्निकूण्डं स्वय पुनः ॥ ७॥ उपविश्य तस्य कठ्यां यावद्धोमं ददाति सः । करालमूर्तिः प्रत्यक्षस्तावत्क्षेत्राधिपोऽवदत् ॥८॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमर्षणा । इति श्रुत्वाऽपि निःक्षोभः सोऽपि जापं समापयत् ।। ९ ।। तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत । गूर्जरत्राधिपत्यं ते धीर! दत्तं मयाऽखिलम् ॥१०॥ परमद्यतनादिनात्पञ्चवर्षात् फलिष्यति मनोरथः ।। सिद्धमन्त्रः कुमारोऽथ नत्वा तं योगिपुङ्गवम् । कल्याणकारके देशे क्रमाकान्तीपुरीं ययौ ॥ ११॥ कुमारः कौतुकात्तस्या भ्रमन् परिसरेऽन्यदा। कबन्धमेकमद्राक्षीत् वैरिणाऽपास्तमस्तकम् ।। १२॥ तत्पार्श्वे मिलितस्त्रीणां शुश्रावान्योन्यजल्पितम् । अहो ! कचकलापोऽस्य अहो! श्रवणलम्बता ॥ १३ ॥ अहो ! घनत्वं कूर्चस्य ताम्बूले व्यसनं तथा । अहो ! विरलदन्तत्वं श्रुत्वेत्येका ततो जगौ ।। १४ ।। कथमे