________________
कुमारपाल
प्रबन्धः
॥५४॥
RXXXXXXXXXXXXXXXXXXXXXXXXXXX
कर्ण्यतामिति वदन्तः। सूरिः__"प्राणित्राणं महत्पुण्यं मिथ्यावावस्त्वयं लघुः ।" इति ध्यात्वा नास्त्यत्र सर्वथा कुमार इत्याह । भटैरूचे, राजाज्ञा क्रियतां तहि । सूरिरपि, “न ब्रूयात् सत्यमप्रियम्” इति जानन् राजाज्ञामपि कृतवान् । भटा अपि सर्वत्र विलोक्य पश्चाद्गताः । निष्काशितश्चौलुक्यो भाषितश्च, श्रुतं भवता भटभाषितम् ? । कुमारोऽपि प्राह, भगवन् ! भवदीया भटीयाश्च गिरः श्रुताः ।
दयामयो भवद्धर्मः श्रुत एवाभवत् पुरा । अनुभूतोऽधुना सोऽयं मया मजीवितावनात् ।। १ ।। येऽसुखेऽप्युपकुर्वन्ति तेऽपि संप्रति पञ्चषाः । यस्तु प्राणव्यये सत्त्वमेकः सत्त्ववदग्रणीः ।। २ ।। भक्तोऽभवं पुराऽप्यग्रे तावक रिभिर्गुणैः । क्रीतो जीवितदानेन दास एवास्मि संप्रति ।। ३ ।। निमित्तकथनात्पूर्व राज्यदान प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थं भवतान्मम ।। ४ ।। इत्यादि प्रोच्य मन्त्रिदापितशम्बलो रात्रौ वटपद्रं प्रति चलितः । तत्र च क्षुधातः कटुकाख्यवणिग्रहट्टे विशोपकैकचणकाः क्रीताः । वणिग् द्रविणार्पणं विना न मुञ्चति । रुष्टः कुमारः । खङ्गेन भापितो वणिग् भणति, माङ्गल्ये भवन्तु चणका एते तवेति याहि । ततः--
आजानुलम्बितमलीमससाटकानां, मित्रादपि प्रथमयाचितभाटकानाम् ।
प्राणादपि प्रियतमैकवराटकानां, वज्रं दिवः पततु मूनि किराटकानाम् ॥ १ ॥ इत्युक्त्वा जटाधारी भृगुकच्छे गतः । तत्रैकः शाकुनिकः पृष्टः कदा मम शुभं भावीति । तेन प्रातर्बहिर्गत्वा
॥५४॥