SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥५३॥ हुंतीइ हुँति अणहुंतयावि जंतीइ जंती हुतावि। जीइ समं नीसेसगुणगणा जयउ सा लच्छी ॥१॥ मन्त्रिसमक्षं सूरयः प्रोचुः भोः कुमार ! गुणधार!, नवाङ्केश्वरवत्सरे ११९९ । चतुर्थ्यां मार्गशीर्षस्य, श्यामायां रविवासरे ॥१॥ पुष्यऋक्षेऽपराले चेत्तव राज्यं न जायते । निमित्तालोकसंन्यासस्तीतः परमस्तु नः ॥ २॥ प्रतिज्ञायेति सूरीन्द्रस्तदा तद्दिनपत्रकम् । लिखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥ ३ ॥ कुमारः प्रोचे, कथमेतज्ज्ञायते?। सूरिभिरुक्तं, यत्त्वमत्रायातः सहसैवास्मत्पट्टे निषद्यावृते उपविष्टः, तेन राजाहसिहासनोपवेशान्नूनमयं राज्याह इति ज्ञातम् । तेन ज्ञानेन चमत्कृतः कुमारः प्राह-- यद्य तत्त्वद्वचः सत्य त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदाम्भोज, सेविष्ये राजहंसवत् ।।१।। सूरिणोचे, अस्माकं राज्येन कि कार्य, परं राजन् ! त्वं राज्य प्राप्य पारमेश्वरशासनप्रभावको भूयाः श्रीआमराजवत् । राज्ञाप्यङ्गीकृते सूरिभिरुदयनमन्त्रिणः सर्वं स्वरूपं ज्ञापितम् । मन्त्रिणा च सबहुमानं गृहे नीत्वा स्नानभोजनाच्छादनादिभिः सत्कृतः, कियन्ति दिनानि स्थितश्च मन्त्रिगृहे । तदा च जयसिंहदेवेन ज्ञात्वा सैन्यं मारणाय प्रहितम् । यावता भटाः सर्वत्र गवेषयन्ति तावज्ज्ञात्वा मन्त्रिगृहात्सरिशालायामागात् रक्ष रक्षेति ब्रुवाणः। सूरयोऽपि कारुण्याब्धयोऽयं श्रीजिनशासनप्रभावको भावी रक्षितः इति ध्यात्वा । वसतिभूमिगृहे कुमारं स्थापयित्वा पुस्तकग्रन्थिभिरि स्थगितं तथा यथा कोऽपि न वेत्ति । भटा अपि सर्वत्र भ्रमन्तः शालायामायाताः कस्यचित्पिशनस्य वचसा भवन्मठे कुमारोऽस्ति XXXXXXXXXXXXXXXXX ॥५३॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy