________________
॥५३॥
हुंतीइ हुँति अणहुंतयावि जंतीइ जंती हुतावि। जीइ समं नीसेसगुणगणा जयउ सा लच्छी ॥१॥ मन्त्रिसमक्षं सूरयः प्रोचुः
भोः कुमार ! गुणधार!, नवाङ्केश्वरवत्सरे ११९९ । चतुर्थ्यां मार्गशीर्षस्य, श्यामायां रविवासरे ॥१॥ पुष्यऋक्षेऽपराले चेत्तव राज्यं न जायते । निमित्तालोकसंन्यासस्तीतः परमस्तु नः ॥ २॥
प्रतिज्ञायेति सूरीन्द्रस्तदा तद्दिनपत्रकम् । लिखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥ ३ ॥ कुमारः प्रोचे, कथमेतज्ज्ञायते?। सूरिभिरुक्तं, यत्त्वमत्रायातः सहसैवास्मत्पट्टे निषद्यावृते उपविष्टः, तेन राजाहसिहासनोपवेशान्नूनमयं राज्याह इति ज्ञातम् । तेन ज्ञानेन चमत्कृतः कुमारः प्राह--
यद्य तत्त्वद्वचः सत्य त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदाम्भोज, सेविष्ये राजहंसवत् ।।१।। सूरिणोचे, अस्माकं राज्येन कि कार्य, परं राजन् ! त्वं राज्य प्राप्य पारमेश्वरशासनप्रभावको भूयाः श्रीआमराजवत् । राज्ञाप्यङ्गीकृते सूरिभिरुदयनमन्त्रिणः सर्वं स्वरूपं ज्ञापितम् । मन्त्रिणा च सबहुमानं गृहे नीत्वा स्नानभोजनाच्छादनादिभिः सत्कृतः, कियन्ति दिनानि स्थितश्च मन्त्रिगृहे । तदा च जयसिंहदेवेन ज्ञात्वा सैन्यं मारणाय प्रहितम् । यावता भटाः सर्वत्र गवेषयन्ति तावज्ज्ञात्वा मन्त्रिगृहात्सरिशालायामागात् रक्ष रक्षेति ब्रुवाणः। सूरयोऽपि कारुण्याब्धयोऽयं श्रीजिनशासनप्रभावको भावी रक्षितः इति ध्यात्वा । वसतिभूमिगृहे कुमारं स्थापयित्वा पुस्तकग्रन्थिभिरि स्थगितं तथा यथा कोऽपि न वेत्ति । भटा अपि सर्वत्र भ्रमन्तः शालायामायाताः कस्यचित्पिशनस्य वचसा भवन्मठे कुमारोऽस्ति
XXXXXXXXXXXXXXXXX
॥५३॥