________________
प्रबन्धः।
यावता किंचिनिमित्तादि स्मृत्वा विकोक्य च भाषते सूरिस्तावता मं० उदयनो वन्दनायागतो बहुपरिवारः । तदा. कुमारपाल कुमारपृष्टाः श्रीहेमाचार्या उदयनस्वरूपमाहुः--
पूर्व मरुदेशे श्रीमालज्ञातीय ऊदाभिधो वणिक् प्रावृषि काले प्राज्याज्यक्रयाय निशीथे वजन् कर्मकरैरेकस्मात्केदारा॥५२॥
दपरस्मिन् पूर्यमाणेऽम्भोभिः के यूयं ? इति पृष्टे तैः, अमुकस्य वयं कामुकाः इत्युक्ते ममापि ते क्वापि सन्ति ? इति पृष्टे पुनस्तैः, कर्णावत्यां तवापि सन्ति इत्युक्ते शकुनग्रन्थि बद्ध वा कालेन सकुटुम्बस्तत्रागतो वायडज्ञातीयकारिते जिनप्रासादे देवान्नमस्कुर्वन्नेकया छिम्पिकया श्राविकया पृष्टः । सार्मिक ! त्वं कस्यातिथिः ? । तेनोक्तं, वैदेशिकोऽहमिति भवत्या एवेति तद्वाक्यं श्रुत्वा सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा गृहस्थानं दत्तम् । तत्र स्थितः कालेन भाग्ययोगात्संपन्नसंपज्जातः । तत्र नवीनसौधं चिकीर्षुः खातावसरे निधिमधिगम्य तस्याः स्त्रियः समर्पयन् निषिद्धस्तया, नेदं मदीयं किं तु तव भाग्योदयान्निर्गतमिति गृहाण त्वमेवेति । तत उदयनश्चिन्तितवान्
कृतप्रयत्नानपि नैति कांश्चित, स्वयं शयानानपि सेवते परान् । . .
द्वयेऽपि नास्ति द्वितयेऽपि विद्यते, श्रियः प्रचारो न विचारगोचरः ।। १ ।। ततः सिद्ध शेन स्तम्भतीर्थे मन्त्री कृतः । कर्णावत्यामतीतानागतवर्तमानचतुर्विंशतिजिनप्रतिमामण्डितो द्वासप्ततिजिनालयः प्रासादः कारितः, सोऽयमुदयनमन्त्री । अस्याङ्गजा वाहड १ आम्बड २ चाहड ३ सोला ४ नामानो भिन्नमातृका इति गुरुमुखात् श्रुत्वाऽचिन्तयत्--
॥५२॥