SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥४९॥ - मूषकं रूप्यमुद्रां बिलादाकर्षन्तं दृष्टवान् । कियतीरेष कर्षयतीति यावत्पश्यति तावतैकविंशतिमुद्राः कर्षिताः, तदुपरि नत्यं कृत्वाऽऽसित्वा शयित्वा च मुद्रामेकामादाय बिलेऽविशत् । कुमारोऽपि मनस्येवं ध्यातवान्--.. नो भोगो न गृहादिकार्यकरणं नो राजदेयं किमप्यन्यस्यापि न सत्कृतिर्न सुकृतं सत्तीर्थयात्रादिकम् । यद्गृह्णन्ति तथाऽपि लोलुपधियः शूच्याननाद्या धनं, तन्मन्ये भुवनैकमोहनमहो ! नास्मात्परं किंचन ।। १ ।। ततः समुत्थाय शेषा विंशतिमुद्रा गृहीताः । उन्दुरोऽपि बिलान्निर्गतस्ता अपश्यन् हृदयस्फोटं मृतः । तं मृतं दृष्ट्वा कुमारः खिन्नस्तच्छोकशकुव्याकुलमना अचिन्तयत् धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ।। १ ।। भवतु तेन धनेन सुखेन वा, यदपहत्य परं प्रणिपत्य वा । उभयलोकहिताशयशालिनां, विपद एव वरं नतु संपदः ।।२।। ततः पुरो व्रजन् कयाऽपीभ्यपुत्र्या पितुर्गुहं व्रजन्त्या पथि पाथेयाभावादिनत्रयक्षुत्क्षामकुक्षितृवात्सल्यात्कुमारः शालिकरम्बेन भोजितः । तदौचित्येन हृष्टः प्राह-- करचलुअपाणिएणवि, अवसरदिनेण मुच्छिओ जीयइ । पच्छा मुआण सुंदरि ?, घडसयदिनेण किं तेण? ।। १ ।। जं अवसरे न हू, दाणं विणओ सुभासियं वगणं । पच्छा गयकालेणं, अवसररहिएण किं तेण? ।। २ ।। पश्य शलाकावसरे, तृणाय भूपैः प्रसार्यते स्वकरः । अनवसरे गुणवानपि, हृदयादुत्तार्यते हारः ।। ३ ।। औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गणग्रामः, औचित्यपरिवजितः ।। ४ ।। ॥४९॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy