SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कुमारपाल बन्धः ॥४८॥ | चेत्त्वां तत्पदे नेष्यामीति । ततः सेनानीस्तद्धरणार्थं निर्गतः । कुमारोऽपि रात्रिमतिक्रम्य प्रातर्नष्टः । दैवयोगात्पृष्ठ लग्नः सेनानी। रजःपूरहयहेषितभटहकादिमित्रासितो भयभ्रान्तः कम्प्रकायोऽग्रे वश्यन् बदरीवले. तत्पत्राम्येकत्र कुर्बागं हालिकं प्रेक्ष्य प्राह, भोः सत्पुरुष ! रक्ष रक्ष मामितो भयादिति । हालिकोऽपि सकृपस्तमिति ब्रुवन्तं तत्र पत्रराशौ क्षिप्त्वा | कण्टकभरैराच्छादितवान् । कुमारोऽपि तैः कण्टकायमानोऽपि निमीलितहग्द्वन्द्वो मृतवत् स्थितः । तावता पुष्ठौ सेनानीः प्राप्तः सन् प्राह, भो भद्र ! दृष्टो युवाऽत्रको गच्छन् ? । सोऽपि स्वकर्मव्यग्रेण मया कोऽपि न दृष्ट इत्याह । ततश्चतुर्दिक्षु तं विलोक्य विलोक्य श्रान्ताः सैनिकाः । सेनानीरपि कुन्ताण पत्रराशिं विलोक्य पश्चाद्गत्वा राज्ञे सर्वमकथयत् । राजाऽपि यः कश्चित्कुमारप्रवृत्तिमानेता तस्य वाञ्छितं दास्यामीति कथयित्वा सर्वत्र स्वभटान् प्रेषीत् । कुमारोऽपि रात्रौ हालिकेन कर्षितः कण्टकक्षत्तसङ्गिरुधिरक्लिन्नो जीवन्मृत इव हालिकं प्राह रक्षित्वा मामितः कष्टात्कि नैवोपकृतं त्वया ? । उपकारेषु यन्मुख्यं प्राणिनः प्राणरक्षणम् ॥ १॥ "क्षेत्र रक्षति चञ्चा, सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्, नरेण किं निरुपकारेण ? ॥१॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणापराणां, परोपकारेण न चन्दनेन ।।२।। दो पुरिसे धरउ धरा, अहवा दोहिपि धारिया धरणी। उवयारे जस्स मई उवयरियं जो न फंसेइ ॥३॥" जीवदातुर्भवतोऽहमनणः स्वां न यद्यपि । तथाऽप्युपकरिष्यामि समये त्वां स्वबन्धुवत् ॥२॥ इत्युक्त्वा भीमसिंहेति संज्ञां तस्यावधार्य जटा भद्राकृत्य दधिस्थली प्रति प्रस्थितः । पथि तरुच्छायायां विश्रान्तो
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy