________________
118011
विधौ वक्रे स्थिते मूर्ध्नि मन्ये सोऽपि महेश्वरः । भिक्षयात्मभरिर्जज्ञे का कथाsन्यस्य देहिनः ॥ १ ॥
यावता विधिः प्रसीदति तावता देशान्तरे गम्यते वेषान्तरेण प्रच्छन्नवृत्त्या । अत्रत्यं राजसूत्रं त्वां ज्ञापयिष्यामि चररिति विचार्य श्रीकुमारपाल : स्वस्थानं भेजे । समाधिना हृष्टचित्तवृत्तिश्च । अथ
त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ।। १ ।। जीवन्नरो भद्रशतानि पश्यति — इति नीतिवित् कुमारो दधिस्थत्यादी भोपलदेप्रियां भ्रात्राद्य च मुक्त्वा जटाधारीभूय प्रच्छन्नं भूमो बभ्राम । एकदा राजसूत्रजिज्ञासया पत्तने समागात् । कर्णमेरुप्रासादे द्वात्रिंशद्भरटकमध्ये मिलितः । श्रीजयसिंहदेवेन वधाय सर्वत्र मृग्यमाणस्तद्भटैरुपलक्ष्य ज्ञापितो राज्ञः । राज्ञा भरटका भोजनार्थं निमन्त्रिताः । मध्याह्ने राजा तेषामनुक्रमेण पादौ प्रक्षालयन् ऊर्द्ध रेखाच्छत्रमत्स्यादिलक्षणैः कुमारं ज्ञात्वा भोजनानन्तरं घात्य इति संचिन्त्य धौतपोतसमाकर्षणार्थं कोशे गतः । कुमारोऽपि राज्ञो मुखच्छाया क्रूरदृष्ट्यादिना दुष्टत्वं जानन् भोजनार्थं निषण्णोऽर्द्धभुक्तो वान्तिव्याजान्निर्गत्य केनाप्यस्खलित आलिगकुम्भकृद्गृहं गतः । तेन भाण्डसंचयमध्ये प्रक्षिप्य रक्षितः । पृष्ठायातराजपुरुषैविलोक्यमानो न लब्धः । गता भटाः । रात्रौ तत्र कुम्भकृता सह मंत्री जाता । यतो या व्यसने उपकारी स मित्रम् । यथाअर्थेन किं कुपणहस्तुपागतेन ?, शास्त्रेण किं बहुशठाचरणाश्रितेन ।
रूपेण किं गुणेप्राश्रमवर्जितेन ?, मित्रेण कि व्यसनकालमनागतेन ? ॥ १ ॥
राजाऽपि धौतपोतप्रदानावसरे कुमारमदृष्ट्वा कोपकरालदृग् सेनान्यमादिष्टवान् । यथा कुमारं जीवन्तमत्रानय, नो
*****
१४७।।