________________
कुमारपाल नाय मम सुतं दद्यादिति मिथ्वाकल्पना मनसि विधाय कुमारपालं प्रति विद्वेषः । अतः--
नाकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ।।१।। यद्वा-- ॥४६॥
मगमीनसज्जनानां, तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः, निष्कारणवैरिणो जगति ॥१॥ पित्रादीन् घातयित्वा कुमारं घातयिष्यामीति धिया प्रच्छन्नघातकान् प्रेषयित्वा त्रिभुवनपालं घातयामास । कुमारपालोऽपि पितुरोर्वदेहिक विधय घातकारणं जिज्ञासुः पत्तने गत्वा राजवर्गीयान् रहः पृष्टवान् । केनाप्याप्तेन घातहेतौ निवेदिते निविण्णश्चिन्तयामास । धिग् राज्यं यत्कृते मूढर्वीरभोगीणबाहवः । पितृभ्रातृतनूजाद्या विध्वंस्यन्ते विरोधिवत् ॥ १॥
भोजराजकाव्यस्य सस्मार। यथामान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः, सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते.!, नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ।।२।। इति ।।
रिपवन्ति परे किञ्चित्प्रतिपद्य व कारणम् । दैववत्तद्विनवायं सिद्धराजो दुराशयः ॥ १॥ Hd यावदेष मां न घातयति तावत्परिवारं क्वापि मुक्त्वा कालक्षेपं करोमीति संचिन्त्य स्वसृपतेः कृष्णदेवस्य पार्श्वे गतः ।
स्वाभिप्रायः प्रकाशितः । ततः कृष्णदेवः प्राह
॥४६॥