________________
।।४५।।
********
कर्णदेवाग्रजक्षेमराजपुत्रः पवित्रधीः । देवप्रसाद इत्यासीद्दधिस्थल्यां कृतस्थितिः ॥ २ ॥ तत्पुत्र त्रिभुवनपाल:, तस्य पुत्राः कुमारपालमहीपालकीर्तिपालाः तेषु --
कुमारपालस्त्वद्राज्ये भविता विश्वविश्रुतः । यः संप्रतिरिवावन्यां जैनं धर्मं तनिष्यति ।। ३ ।
इति सूरिवचसा वज्राहत इव यात्रापवित्रात्मा पत्तनमाजगाम । अथाम्बादेशसंवादचिकीर्गणकाग्रिमान् प्रपच्छ । तेऽपि तात्कलिकलग्नबलादम्बोक्तानुसार्येव प्रोचुः । तदनु कस्यापि पुरोधसो वचसा सोमनाथमारिराधयिषुः पादचारेण कापोतीं वृति कुर्वाणो गङ्गोदककुम्पकावानीय केदारपुत्रवद्देवपत्तनं गतः । प्रभासे स्नात्वा त्र्यहमुपोषितो भोगपूजादिभि: सोमनाथमतोषयत् । ततः प्रत्यक्षीभूतः शम्भुः पुत्रार्थं प्रार्थितः ॥
ध्यात्वा सोमेश्वरोऽवोचत्तव नास्त्येव सन्ततिः राज्यर्हस्तु पुराऽप्यस्ति कुमार स्फारविक्रमः ।। १ । पुनः प्रोचे नृपो दीनस्त्वं श्रुतोऽभीष्टदायकः । दत्से न पुत्रमप्येकं कीदृक् तेऽभीष्टदातृता ।। २ ।। ततः पृत्राप्तियोग्यता नास्ति तवेत्युक्त्वा तिरोहितो देवः ।
एवं गाङ्गोदकैर्नैकभोगैस्तुष्टे महेश्वरे । इष्टं नाप नृपः क्वापि भाग्यायत्ता हि सिद्धयः ॥ १ ॥ यतःनमास्यामो देवान् ननु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियत कर्मे कफलदः ।
फलं कर्मायत्तं यदि किमंगरैः ? किं च विधिना ?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ।। १ ।। ( शिखं० ) इत्यादि ध्यात्वा खेदमेदुरः पत्तनं प्राप्तः । तदनु राज्यार्हं कुमारं यदि मारयामि तदा कदाचित् सोमेशो राज्यपाल
॥४५॥