SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ।।४५।। ******** कर्णदेवाग्रजक्षेमराजपुत्रः पवित्रधीः । देवप्रसाद इत्यासीद्दधिस्थल्यां कृतस्थितिः ॥ २ ॥ तत्पुत्र त्रिभुवनपाल:, तस्य पुत्राः कुमारपालमहीपालकीर्तिपालाः तेषु -- कुमारपालस्त्वद्राज्ये भविता विश्वविश्रुतः । यः संप्रतिरिवावन्यां जैनं धर्मं तनिष्यति ।। ३ । इति सूरिवचसा वज्राहत इव यात्रापवित्रात्मा पत्तनमाजगाम । अथाम्बादेशसंवादचिकीर्गणकाग्रिमान् प्रपच्छ । तेऽपि तात्कलिकलग्नबलादम्बोक्तानुसार्येव प्रोचुः । तदनु कस्यापि पुरोधसो वचसा सोमनाथमारिराधयिषुः पादचारेण कापोतीं वृति कुर्वाणो गङ्गोदककुम्पकावानीय केदारपुत्रवद्देवपत्तनं गतः । प्रभासे स्नात्वा त्र्यहमुपोषितो भोगपूजादिभि: सोमनाथमतोषयत् । ततः प्रत्यक्षीभूतः शम्भुः पुत्रार्थं प्रार्थितः ॥ ध्यात्वा सोमेश्वरोऽवोचत्तव नास्त्येव सन्ततिः राज्यर्हस्तु पुराऽप्यस्ति कुमार स्फारविक्रमः ।। १ । पुनः प्रोचे नृपो दीनस्त्वं श्रुतोऽभीष्टदायकः । दत्से न पुत्रमप्येकं कीदृक् तेऽभीष्टदातृता ।। २ ।। ततः पृत्राप्तियोग्यता नास्ति तवेत्युक्त्वा तिरोहितो देवः । एवं गाङ्गोदकैर्नैकभोगैस्तुष्टे महेश्वरे । इष्टं नाप नृपः क्वापि भाग्यायत्ता हि सिद्धयः ॥ १ ॥ यतःनमास्यामो देवान् ननु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियत कर्मे कफलदः । फलं कर्मायत्तं यदि किमंगरैः ? किं च विधिना ?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ।। १ ।। ( शिखं० ) इत्यादि ध्यात्वा खेदमेदुरः पत्तनं प्राप्तः । तदनु राज्यार्हं कुमारं यदि मारयामि तदा कदाचित् सोमेशो राज्यपाल ॥४५॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy