________________
कुमारपाल
यां संचरन्ते दिवात्र ये । चारित्रिणस्त एव स्युर्न परे यानयायिनः ॥ २ ॥
इति यानानादानतो दूनो नृपः पठितमूर्खा एव भवन्तो देहरक्षितो धर्मः इत्याद्यपि न विन्दन्तीति कोपादुक्तबा - ग्रतो ययौ । माचार्योऽपि निरादरावज्ञां ज्ञात्वा मार्गे दिनत्रयं राज्ञो न मिलितः । तुर्ये दिने सूरयो रूष्टा इति विचिन्त्य प्रसादनार्थं पटकुटीं प्राप ।
ममागः
बहिः स्थितेन श्रीसिद्धक्ष्माभृता सूरिरक्षत । काञ्जिकेन समं भैक्ष्यं भुञ्जानः सपरिच्छदः ।। १ ।। ततो विप्रवचांसि यथातथाप्रलपितानि विसंवादास्पदानि ज्ञात्वा सूरयः पादयोर्लगित्वा प्रसादिताः, क्षम्यतां, जडोऽस्मीत्यादि । ततः श्रीहेमाचार्यसहितः शत्रुञ्जये यात्रां कृत्वा द्वादश ग्रामान् देवदाये दत्त्वा तथैव रैवतके नेमिजिनं प्रणनाम । तत्र तोर्थे-
अस्मिंस्तीर्थे नृपेणापि नोपवेष्टव्यमासने । मचे न शेयं भुक्तौ च न धार्याऽडुणिकाऽग्रतः ।। १ ।। प्रसवो न स्त्रिया कार्यो मथनीयं च नो दधि । प्रतिपाल्या व्यवस्थेयं धर्मास्थाधारिभिर्नृभिः ॥ २ ॥ इति व्यवस्थां कृत्वा देवपत्तने सोमेश्वरं नत्वा कोटिनारिपुरं प्राप । तत्राम्बां भक्त्वयाऽभ्यर्च्य सुतप्राप्त्यर्थं श्री हेमाचार्याः प्रयुक्ताः, श्रीपूज्यविशेषतपः कृत्वा विलोकनीयं श्रीमदम्बा च प्रष्टव्या यदुत मम पुत्रो भावी न वा ? मम च राज्ये को भावी ? इति । ततस्त्रिभिरुपोषण रम्बामाराध्य निर्णयं पृष्ट्वा च राज्ञौऽग्रे कथितम् -
अपत्यं नास्ति ते राजन् ? कृतैरौपायिकैरपि । यस्तु त्वामनु भूमीभुग् भावी तमवधारय ।। १ ।।
*****
******
प्रबन्धः
।। ४४ ।।