SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ तत उम्बराग्रामवास्तव्यदेवसिंहसुतां देवश्रीनाम्नी तां स्वोपकारिणी ज्ञात्वा मम राज्योत्सवे त्वया भग्नि! तिलक: कुमारपाल कार्य इत्युदीर्य दधिस्थली गतः । तत्र पूर्वागतराङ्भटसंकेतेन सैन्यैर्वेष्टितायां दधिस्थल्यां कुमारो नंष्ट्वा सज्जनकुलालकृते प्रबन्धः । टिकापाकमध्ये स्थितः । सज्जनोऽपि तदन्तिके स्थितः सर्वत इष्टिकाव्रातर्वेष्टियति । कुमारो निरुच्छ्वासो जीवन् मृत इव । ॥५०॥ स्थितः । सैन्यं सर्वत्र विलोक्य पश्चाद्गतम् । रात्रौ वोसिरिविप्रः पूर्वमित्रं मिलितः, सज्जनगृहे वोसिरि सज्जनं च प्राह कुमारः___केचिन्नाम्ना गुणैः केचिद्भूयांसः सन्ति सज्जनाः । द्विधा पुनस्त्वमेवैकः, सज्जनोऽस्यधुना ननु ।। १।। अद्यापि जयसिंहदेवः प्रतिकूलदैववन्नानुकूलः, तद् भोः सज्जन ! मत्कुटुम्बमितोऽवन्तीं नय । अहं तु वोसिरिणा देशान्तरं श्रये इति मन्त्रयतां तेषां सज्जनपितरौ रात्रिजागरोद्विग्नौ प्रोचतुः, रे सज्जन! किमयं तव चित्रकूटपट्टिकां, रे वोसिरे ! - तुभ्यं लाटदेशं च दास्यति ? यदुत मुधा जागर्यया रात्रि नयत इति श्रुत्वा कुमारः शकुनग्रन्थि बद्ध वा चिन्तितवान् दारिद्रयमेव दौर्भाग्यं, देहिनां यदधिष्ठितः । जल्पन्नपि जनोऽन्येषां, भवत्यरिरिवाप्रियः ।।१।। गुणज्ञोऽपि कृतज्ञोऽपि, कुलीनोऽपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकप्रीणो न निर्धनः ।।२। । ततः सजनेन सह कुटुम्बमवन्तीं प्रेष्य स्वयं वेषान्तरेण देशान्तरेऽगमत् । क्वापि ग्रामे प्रथनदिनजातलङ्घनो द्वितीयदिने क्षधितो वोसिरिं प्राह, अद्य भोजनोपायश्चिन्त्यताम् । द्विजोऽप्याह, अद्य जननी भोजनदात्री। कुमारः, का जननी?। वोसिरिः ॥५०॥ प्रतिदिनमयत्नलभ्ये !, भिक्षुकजनजननि! साधुकल्पलते! । नृपनमनि! नरकतारणि! , भगवति! भिक्षे! नमस्तुभ्यम् ।।१।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy