________________
कुमारपाल
इन्द्रः, भ्रान्ताऽसि मातः ? । येन विष्णुनाऽष्टादशाक्षौहिण्यः संहारिताः, द्वात्रिंशल्लक्षणपुरुषरक्तबलिच्छलमुत्पाट्य घटो
कचो भीमपुत्रो हतः, स युद्धबिलोकश्रद्धालुमस्तकमात्रेण स्तम्भे स्थापितः, युद्धान्ते पृच्छा, सुदर्शनेन रिपुशिरछेदं प्रबन्धः । - कुर्वन् हरिदृष्टो मया, इत्युत्तरम् । एवं हत्याहतस्य हरेः पादधावने कथं शुद्धिः ? । गङ्गा प्राह, महेशमूर्धनि वासेन नर्म
ल्यम् । इन्द्रः, ब्रह्मणः पञ्चमं शिरो गर्दभस्वरेण यथा तथा भाषमाणं यश्चिच्छेदे, तत्पापशुद्धयर्थं त्वं शिरिसि धृताऽसि । एवं A ब्रह्मकमण्डलुनिवासोऽपि न नैर्मल्यहेतुः, यः स्वसुतां सरस्वती कामयते तस्य संसर्गोऽपि त्याज्यः । यतः--
"महत्सेवा द्वारमाहुविमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ १ ॥” इति । एवमिन्द्रोक्तं विचार्य गङ्गा प्रोचुषी । तहिं 'परदारपरद्रव्य' इति । गुणगरिष्ठपुरुषरत्नपादप्रक्षालनयेति । यदाह ।--
"परदारपरद्रव्यापरद्रोहपराङ्मुखः । गङ्गा प्राह कदाऽऽगत्य, मामयं पावयिष्यति ॥ १ ॥ निष्पापाऽहं भविष्यामि तस्य पापं न विद्यते । तस्मिन् सर्वगुणोत्कृष्टे, मत्पापं न लगिष्यति ।। २ ॥
अग्निना शुद्धयते धातु ग्निः श्यामलतां व्रजेत् । तथा सुरेन्द्र ? मत्पापं, गमिष्यत्यंहियोगतः ॥ ३ ॥" इत्यादि श्रीहेमसूरिपार्श्वे श्रुत्वा चेतसि चमत्कृतः शुभोदर्कसंपर्कवशात् श्रीगुरुपार्श्वे परनारीसहोदरव्रतं गृहीतवान् कुमारपालनृपः । तथा-- "प्रसरति यथा कीतिर्दिा क्षपाकरसोदराऽभ्युदयजननी याति स्फाति यथा गुणपद्धतिः ।
| ॥४२॥