________________
॥४१॥
- "कूण्डले नाभिजानामि नाभिजानामि कङ्कणे । नपुरे त्वभिजानामि, नित्यं पादाब्जवन्दनात् ॥ १ ॥
तथा चात्रैवं पुराणोक्तिः, देवानां रूपद्वयम् । यथा"एकं तु स्थावरं ज्ञेयं, द्वितीयं जङ्गमं पुनः । स्थावरं जलरूपेण, जङ्गमं देवतामयम् ।। १ ।। एकदा गङ्गा जङ्गमरूपेण स्वर्गता । तदवसरे सभामध्यगतेन्द्रेण कार्यव्यग्रेण प्रतिपत्तिर्न कृता । जाह्नवी पश्चाद्ब्रजन्ती देवैदृष्टा, इन्द्रायाकथि । तेन पृष्ठौ गत्वा पादयोर्लगित्वा सम्मान्य च पश्चादानीय सिंहासने निवेश्य पृष्टा । हे मातः ? कथं पश्चाद्गच्छसि ? । गङ्गा प्राह
"वदनं नैव सानन्दं, नासनं न च भाषणम् । न कार्यवादप्रष्टव्यं तस्य पार्श्व गतेन किम् ? ॥ १ ॥
वदनं यस्य सानन्दमासनं चैव भाषणम् । प्रष्टव्यं कार्यवादस्य, गम्यते तस्य संनिधौ ।। २ ।। ___ माणिणि माणविवज्जियं, कि किज्जइ अमिएण । वरि विस पिज्जइ माणसिउं ट्रंपि मरिजइ जेण ।। ३ ॥"
इति गङ्गोक्तं श्रुत्वा सुरेन्द्रः प्राह, एषा जगत्त्रयजनजनितहत्याकोटिसहस्रधारिणी कथमम्बा शुद्धि यास्यति ? इति चिन्तातुरेण मया प्रतिपत्त्यादिकं नाकारि । यतः--
"ब्रह्मस्त्रीभ्रूणगोमातृ-पितृबन्धुसुतस्य च । ये कुर्वन्ति वधं पापाः, परदाररतास्तथा ॥ १ ॥
ते सर्वे तव पानीयस्नानपानपरायणा । वेगाद्भवन्ति निष्पापाः लोकोक्तिरिति वर्त्तते ।। २ ॥" . इन्द्रेणोक्ते गङ्गा प्राह, अहं विष्णुपादोदकी विष्णुपादरजःप्रक्षालनपरा । अतो विष्णुपादस्पृष्टं जलं पवित्रमेव भावि ।
EXXXXXXXXXXXXXXXXXXXXXX