SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥३९॥ ***** भूरिशः । शिलायामिव न क्वापि तत्राभूत्प्रणतिर्मनाक् ।। ३४ ।। तद्वाणकौशलं वीक्ष्य वीक्षापन्नः सविस्मयः । साधु साधु महासत्त्वेत्यवदद्वानराग्रणीः ।। ३५ ।। तव कार्यं सुवर्णेन लङ्कायां गमनेन वा । इत्युक्ते काञ्चनेनेति प्रत्युवाच शचीशभूः ।। ३६ ।। ततोऽसौ हनुमान् सम्यक् सत्त्वेनावजितः क्षणात् । अर्पयामास कौमारं स्वर्णमानीय कोटिशः ।। ३७ ।। तद्गृहीत्वा पुरं प्राप स्वकीयमथ पाण्डुसूः । तेन स्वर्णेन सकलं क्रतुकार्यमजायत ।। ३८ ।। एवं निस्सीमसत्त्वोद्यल्लीलासंवलितैर्गुणैः । सिद्धिं समीहितार्थस्य प्रविलोक्य विवेकिभिः ।। ३९ ।। सत्त्वगुणिता शुद्धगुणद्धिर्वधितोदया । अर्जनीयाऽर्जुनेवे पुरुषार्थप्रसिद्धये ।। ४० ।। युग्मम् ।। सत्त्वमपि परनारीसहोदरव्रतसमुज्ञ्जीवितमेव लोकोत्तमपुरुषप्रतिष्ठा हेतुः । केवलसत्त्वमात्रं सिंहशरभादीनामिव विवेकविकलत्वेन पशुपुरुषकारावहम् । अतः पुरुषेण स्वात्मनः प्रतिष्ठाधर्मजयादिवृद्धये परनारीपराङ्मुखत्वमेव सेवनीयम् । यतः - "तावल्लोकविलोचनामृतरसस्तावन्मनोवल्लभ-स्तावद्धर्ममहत्त्व सत्यविलसत्कीर्तिप्रतिष्ठास्पदम् । तावद्भूमिपतिप्रसादभवनं तावच्च सौभाग्यभू-र्यावन्नो परदारसंगरसिको लोके भवेन्मानवः ।। १ ।। " तथा- "परिहरत पराङ्गनाभिषङ्ग यदि बत! जीवितमस्ति वल्लभं वः । हरि हरि हरिणीदृशो निमित्तं दश दशकन्धरमौलयो लुठन्ति ॥ १ ॥ तथा च- "लङ्का यस्य पुरी त्रिकूटशिखरे भ्राता स कुम्भश्रवाः, उद्वेलः परिखाम्बुधिः स जगतो जेताङ्गभूरिन्द्रजित् । ।।३९ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy