________________
कुमारपाला तदाऽयमुपलैः सेतुवन्धो व्यरचि वानरः ।। १९ ॥ ससैन्यो राघवोऽनेन समुद्रमुदलङ्घयत् । प्राप्य लङ्कापुरी नीत पौल- प्रबन्धः । ॥३८॥
स्त्यः प्रेतसद्मनि ।। २० । लङ्काधिपत्ये संस्थाप्य बिभीषणमुदारधीः । सीतासमन्वितो रामः स्वां पुरी जग्मिवान् यदा
॥२१॥ तदाऽहं रक्षको ह्यत्र कृतो रामेण भूभुजा। मा गच्छन्मानवः कोऽपि पथाऽनेनेति हेतुना ।। २२ ।। त्वद्रथोऽयं । * मयाऽस्थापि ततोऽर्जुनयशोऽर्जुन ! । वृथा प्रयासं मा कार्षीर्लङ्कागमनहेतवे ।। २३ ।। इत्युक्ति मारुतेः श्रुत्वा सत्त्वाढयः
प्राह पाण्डवः । सत्यमुक्तं महाभाग ! त्वया कपिकुलोत्तम ! ॥ २४ ॥ परं तथाऽपि गन्तव्यं लङ्कायां स्वर्णहेतवे । ऋषीणां दक्षिणाद्यर्थमध्वरे तद्विलोक्यते ॥ २५ ॥ तवापि सुकतस्यास्य विभागो भविता कपे ! यतः प्राप्येत पुण्यांशः कृतानुमतिकारितैः ।। २६ ॥ यतः“कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥"
महासत्त्वैः समारब्धं कार्य केन विहन्यते ? । येन केनाप्युपायेन तसिद्धि नेयमेव तैः ।। २७ ।। अनेन वचसा क्रुद्धस्तदाह पवनात्मजः । अहो ! पाण्डवकोटीर! गर्वस्ते खर्वसंस्थितिः ।। २८ ।। श्रीरामोऽनेन मार्गेण गतो नाप्यपरो नरः । गच्छ त्वमन्यमार्गेण शक्नोषि यदि पाण्डव ! ।। २९ ॥ प्राहार्जुनः प्रयास्यामि त्वं मार्गस्यास्य रक्षकः । क्षेत्रपो हि निजं क्षेत्रं पाति नो सकलं जगत् ।। ३० ।। ततोऽर्जुनेन कोदण्डं कुण्डलीकृत्य मामणैः । सेतुबन्धो नवश्वके वज्रपद्या विजि
।।३८ त्वरः ।। ३१ ।। पावनिर्मानिनां मान्यस्तं सेतुं वीक्ष्य विस्मितः । पश्यामि दृढतामस्येत्यवोचत् पाण्डवं प्रति ॥ ३२ ॥ विलोकयेत्यनुज्ञातः साक्षादिन्द्रभुवा ततः। सप्ततालप्रमं रूपं चक्रे वक्रमनाः कपिः ।। ३३ ।। सेतोरुपरि वेगेन पपातोड्डीय