________________
॥३७॥
यो वायुवेगादधिकं चलत्यस्खलितः सदा । स चस्खले रथः केन मामकीनो मनस्विना? ।। ५ ।। जिज्ञासुः स्खलने हेतु रथादुदतरत्ततः । अग्रतः पार्श्वतश्चापि पाषाणाद्य व्यलोकत ।। ६ ।। व्याघातसदृशं किंचिद्यावदग्रे न पश्यति । रथं च परितस्तावदभ्रामाभ्रान्तलोचनः ।। ७ ।। ततो रथं परावृत्य स्थितस्तेनातिकोमलः । मृणालतन्तुवत्सूक्ष्मस्तन्तुरेको निरैक्ष्यत ।। ८ ।। अर्जुनो विस्मयस्मरश्चिन्तयामास चेतसि । अहो! मम रथोऽनेन तन्तुना स्थापितः कथम् ? ।।९।। ततस्तदेनं रुष्टात्मा प्राजनेन जघान सः । नोच्छिन्नस्तेन घातेन स तन्तुर्घनसंहतिः ॥ १०॥ स दोभ्यां त्रोटितु लग्नस्ततः सोद्यममानसः । नो कराभ्यामपि परं शक्यते खण्डितु यदा ॥ ११॥ तदा शस्त्रेण तीक्ष्णेन बलेन दृढमाहतः । भग्नं शस्त्रं परं तन्तुस्तस्थावच्छिन्न एव सः ।। १२ ।। युग्मम् ।। यावत्त्वालोकते तन्तोर्मूलमुन्मूलनं चिकीः । तावदेकं स्फुरत्पुच्छमुन्दरं दृष्टवानसौ ॥ १३ ।। वेष्टयित्वा रथं तत्र पुच्छानिर्गततन्तुना । स्थितं तमिन्द्रसूः प्रोच कस्त्वमाखो ! महाबलः ।। १४ ।। कथं रथः स्वमार्गेण गच्छन्मे स्खलितस्त्वया। स्वं रूपं प्रकटीकृत्य कथ्यतां कारणादिकम् ।। १५ ।। क्वापि नोन्दूरमात्रेण स्खल्यते कस्यचिद्रथः । परं प्रभावो देवादेरवश्यं संभवी ह्ययम् ।। १६ ।। यतः____ "ये मजन्ति निमजयन्ति च परास्ते प्रस्तरा दुस्तरे, वाधौं वीर ! तरन्ति वानरभटान् संस्तारयन्तेऽपि च ।
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुञ्जम्भते ।। १।।"
इत्यर्जुनवचः श्रुत्वा मूषकस्तत्क्षणादपि । त्यक्त्वा तद्रूपमकरोद्रूपं हनुमतः स्फुटम् ।। १७ ।। स प्राह पाण्डवश्रेष्ठ ! श्रृणु सर्वं यथास्थितम् । अहं पवनपुत्रोऽस्मि रामदेवस्य सेवकः ।। १८ ।। यदा जहे सती सीता रावणेन दुरात्मना ।
XXXXXXXXXXXXXXXX
||३७॥