________________
॥३५॥
क्रमेण पूर्णे दोहदे सुतो जातः । कुमार इव तेजस्वी क्षिति पालयिष्यतीति पितृभ्यां कुमारपाल इति नाम कृतम् । * क्रमेण शस्त्रशास्त्रपारीणः । क्रमेण च महीपालकीतिपालौ सुतावपरौ जातौ । सुता प्रेमलदेवी श्रीजयसिंहदेवतुरङ्गमाध्य
क्षेण कृष्णदेवेन परिणीता। द्वितीया देवलदेवी शाकम्भरीपुरीशार्णोराजेन परिणीता। श्रीकुमारपालोऽपि पितृभ्यां भोपलदेवी राजकन्यां विवाहितः ।
एवं कुमारपालादिपुत्रै_जिष्णुवैभवः । त्रिभित्रिभुवनपालभूपस्त्रिभुवनेऽभवत् ॥ १ ॥ एकदा श्रीजयसिंहनृपसेवायै श्रीकुमारपालः पत्तनं गतः। तत्र भूपसदसि सिंहासनोपविष्टा राज्ञोऽग्रे श्रीहेमाचार्या दृष्टाः । एते कलाब्धयो राज्ञो मान्या जैना मुनीश्वराः । एषां दर्शनतो ननं पुण्यराशिः समुल्लसेत् ।।१।। चेतसीति विचित्यागात् पौषधागारमेकदा । गुणगोष्ठ्या प्रवृत्तायां तत्राचार्यान् स पृष्टवान् ॥ २॥ गुणेषु को गुणः पुंसामग्रणीः सकलेष्विह । वाचं वाचंयमाधीशस्तत एवं तमूचिवान् ॥ ३॥ सत्त्वमेकमहं मन्ये गुणेषु निखिलेष्वपि । परदारसहोदर्यावजितं सार्वभौमति ॥ ४ ॥ यतः
___"सत्त्वं सर्वगुणौघमस्तकमणिः सत्त्वं जयश्रीप्रदं, सत्त्वं सर्वपदार्थसिद्धिविधये लोकोत्तरा कामधुक् । Hd द्वात्रिंशद्वरलक्षणाधिकमिदं ख्यातं च सल्लक्षणं, सत्त्वं सत्त्ववति प्रतिष्ठिततमा सर्वा पुमर्थस्थितिः ।।१।" यद्वा
"प्रयातु लक्ष्मीश्चपलस्वभावा, गुणा विवेकप्रमुखाः प्रयान्तु । प्राणाश्च गच्छन्तु कृतप्रयाणा, मा यातु सत्त्वं तु नृणां कदाचित्।।१।।
॥३५॥