________________
कुमारपाल
प्रबन्ध
॥३४॥
XXXXXXXXXXXXXXXXXXXXXXXXX
भ्रातः! संवृणु पाणिनित्रपितं कातन्त्रकन्थाकथां, मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् ?।।
कः कण्ठाभरणादिभिबंठरयत्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥ १ ॥ एवं सिद्धराजं धर्माभिमुखं कृत्वा सर्वत्र विहारार्थिनोऽपि देवतादेशवशेन श्रीहेमाचार्याः पत्तन एव प्रायस्तस्थुः । यदुक्तम्
"निच्चं सहावउ चिय, समग्गलोओवयारकयचित्तो । सो देवयाइ वुत्तो, विहरतो विवहदेसेसु ।। १ ।। गुजरविसयं मुत्तुं, मा कुणसु विहारमन्नदेसेसु । काहिसि परोवयारं, जेणित्थ ठिओ तुम गुरुयं ।। २ ।। तो तीए वयणेणं, देसंतरविहरणाओ विणियत्तो । चिट्ठइ इहेव एसो, पडिबोहंतो भवियवग्गं ॥ ३ ॥ बुहजणचूडामणिणो, भुवणपसिद्धस्स सिद्धरायस्स । संसयपएसु सव्वे-सु पुच्छणिज्जो इमो जाओ ।। ४ ।। एयस्स देसणं निसुणि-ऊणं मिच्छत्तमोहियमईवि । जयसिंहनिवो जाओ, जिणिदधम्माणुरत्तमणो ।। ५ ॥ जयसिंहदेववयणा-उ निम्मियं सिद्धहेमवागरणं । नीसेससद्दलक्खण-निहाणमिमिणा मुणिंदेणं ।। ६ ।। अमओवमेयवाणी-विलासमेयं अपिच्छमाणस्स । आसि खणंपि न तित्ती, चित्ते जयसिंहदेवस्स ॥ ७ ॥” इत्यादि ।।
अथ कुमारपालस्वरूपं, यथा - 1. अथ दधिस्थलीपुर्या श्रीभीमदेवसुतक्षेमराजस्तत्सुतो देवप्रासादस्तद्भः श्रीत्रिभुवनपालः भार्या कश्मीरदेवी । तस्या गर्भ समुत्पन्ने एवं दोहदः__ "आसमुद्रक्षितेखाणं, प्राणिनामभयार्पणम् । व्यसनानां निषेधं च, साऽकाङ्क्षच्छुभगर्भतः ।। १ ॥"
M||३४।।