________________
॥३३॥
पत्तनं प्राप्ताः । सर्वं शारदोक्तं राज्ञे विज्ञपयामासुः ।
तदाकर्ण्य चमत्कारं, धारयन् वसुधाधिपः । उवाच धन्यो सदेशो ऽहं च यत्रेदृशः कृती ।। १ ।। व्याकरणप्रतयश्च श्रीसूरिभ्यः समर्पिताः । तथा बहुदेशेभ्योऽष्टादशव्याकरणानि समानीयापितानि गुरुभ्यः । तैरपि सर्वव्याकरणान्यवगाह्य सारं च समादाय वर्षेण पञ्चाङ्ग' नवीनं सपादलक्षमितं श्रीसिद्धहेमचन्द्राभिधानं निर्माय श्रीराजवाह्यकुम्भिकुम्भे पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरैर्वीज्यमानं नृपसभायां समानीय समग्र विद्वत्समक्षं वाचयित्वा राज्ञाकृतपूजोपचारं स्वसरस्वतीकोशे स्थापितम् । अत्रान्तरे श्रीहेमसूरेर्महिमानमसहिष्णुभिर्ब्राह्मणैर्नृपो विज्ञप्तः, हे सिद्धराज! व्याकरणमिदं शुद्धाशुद्धत्वपरीक्षां विना कृतं न राज्ञः सरस्वतीकोशे स्थापितुं युक्तम् । शुद्धादिपरीक्षा तदा स्याद्यदा काश्मी रदेशे चन्द्रकान्तश्रीब्राह्मीमूर्तेः पुरः स्थितजलकुण्डे क्षिप्यते । कुण्डाच्च यद्यक्लिनो निर्गच्छति पुस्तकतदा ज्ञायते शुद्धमिदम् । इति विप्रैविप्रतारितः संशयाकुलः प्रधानान् विदुषश्च व्याकरणपुस्तकं दत्वा काश्मीरदेशे प्रहितवान् । ते च तत्र गत्वा तत्रत्यनृपविद्वत्समक्षं सरस्वतीकुण्डमध्ये मुक्तः घटिकाद्वयम् । श्रीशारदानुभावात् कलिकालसर्वज्ञ हेमसूरिप्रणीतत्वेन च परमशुद्धिमत्वाद् यथास्थितोऽक्लिन्न एव निर्गतः लोके महाविस्मयश्च । ततस्तत्रत्यनृपसत्कृताः प्रधानाः पश्चादाययुः । राज्ञोऽग्रे जलमध्यपुस्तकप्रक्षेपादिवृत्तान्तः सर्वोऽप्यकथि । ततो राज्ञा विस्मितहृष्टहृदयेन लेखकशतत्रयं मेलयित्वा वर्षत्रयं यावत् श्री हेमचन्द्रव्याकरणप्रतयो लेखिताः, अष्टादशदेशेषु च सर्वाध्येतदृणां भणनभाणनाय प्रहिताश्च । ततो राजाज्ञया सर्वः कोऽपि पठति पाठयति च ।
॥३३॥