SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥३१॥ विधाय न्यायसंग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाटयास्य ययुगिरौ ।। १ ।। यावता तत्र श्रृङ्ग देहसंस्कारं कुर्वन्ति तावता ब्योमवाणी प्रादुरभूदेवम् । तथाहि__ "अत्र भीष्मशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं तु, कर्णसंख्या न विद्यते । १ ॥" श्रीराजन् ! एतद्भारतवाक्यं ज्ञात्वाऽस्माभिः पाण्डवानां मुक्तिर्व्याख्याता । शंत्रञ्जये नासिक्यपुरे चन्द्रप्रभप्रासादे च तेषां मूर्तयश्च सन्ति । एवं सति केऽपि जैनाः पाण्डवा बभूवुः । एतद्धमसरिवचः श्रुत्वा राज्ञा प्रोक्तम्, भो विप्राः ! वदतात्रोत्तरम् । अयं जैनर्षिः सत्यवादी, भवन्तस्तु मिथ्याभिमानाद्यत्तत्प्रलापिन एव । ततो राज्ञा श्रीसूरयः पूजिताः स्वस्थानमलङ्काएः । लोके महती प्रभावनाऽभूत् । इत्थं स्वगोभिर्जयसिंहदेव-संदेहसंदोहतमांस्यपास्यन् । उञ्जम्भयन् जैनमताम्बुजन्म, श्रीहेमसूरिः शुशुभे स भास्वान् ।।१।। एकदा कर्णमेरुप्रासादाद्वलमानेन राज्ञा रात्रौ कस्यापि धनिनो गृहे बहून् दीपान् दृष्ट्वा तद्वतु जिज्ञासुना प्रातराकार्य पृष्टः श्रेष्ठी । त्वद्गृहे केन हेतुना बहवो दीपाः ?। तेनोक्तम्, देव ! मम गृहे चतुरशीतिलक्षाः स्वर्णस्य सन्ति, एकैकलक्षस्यैकैको दीपो दीप्यते । एतदाकर्ण्य राज्ञा प्रजावत्सलतया अग्ने विश्वासः । यतः"पासा १ वेसा २ अग्गि ३ जल ४, ठग ५ ठक्कुर ६ सोनार ७। ए दस न हुई अप्पणां, मंकड ८ बडूअ ९ विडाल १० ॥१॥" • इति प्रोच्य षोडशलक्षान् स्वकोशाद्दापयित्वा स धनी कोटीध्वजः कृतः । श्रीसिद्धराजस्य द्रविणस्यैका कोटि प्रतिवर्ष पुण्यव्यये । येन राज्ञा स्वमातुः श्रीमयणलदेव्याः पुण्यव्यये बाहलोडग्रामे यात्रिकलोककरो द्वासप्ततिलक्ष
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy