SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥३१॥ विधाय न्यायसंग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाटयास्य ययुगिरौ ।। १ ।। यावता तत्र श्रृङ्ग देहसंस्कारं कुर्वन्ति तावता ब्योमवाणी प्रादुरभूदेवम् । तथाहि__ "अत्र भीष्मशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं तु, कर्णसंख्या न विद्यते । १ ॥" श्रीराजन् ! एतद्भारतवाक्यं ज्ञात्वाऽस्माभिः पाण्डवानां मुक्तिर्व्याख्याता । शंत्रञ्जये नासिक्यपुरे चन्द्रप्रभप्रासादे च तेषां मूर्तयश्च सन्ति । एवं सति केऽपि जैनाः पाण्डवा बभूवुः । एतद्धमसरिवचः श्रुत्वा राज्ञा प्रोक्तम्, भो विप्राः ! वदतात्रोत्तरम् । अयं जैनर्षिः सत्यवादी, भवन्तस्तु मिथ्याभिमानाद्यत्तत्प्रलापिन एव । ततो राज्ञा श्रीसूरयः पूजिताः स्वस्थानमलङ्काएः । लोके महती प्रभावनाऽभूत् । इत्थं स्वगोभिर्जयसिंहदेव-संदेहसंदोहतमांस्यपास्यन् । उञ्जम्भयन् जैनमताम्बुजन्म, श्रीहेमसूरिः शुशुभे स भास्वान् ।।१।। एकदा कर्णमेरुप्रासादाद्वलमानेन राज्ञा रात्रौ कस्यापि धनिनो गृहे बहून् दीपान् दृष्ट्वा तद्वतु जिज्ञासुना प्रातराकार्य पृष्टः श्रेष्ठी । त्वद्गृहे केन हेतुना बहवो दीपाः ?। तेनोक्तम्, देव ! मम गृहे चतुरशीतिलक्षाः स्वर्णस्य सन्ति, एकैकलक्षस्यैकैको दीपो दीप्यते । एतदाकर्ण्य राज्ञा प्रजावत्सलतया अग्ने विश्वासः । यतः"पासा १ वेसा २ अग्गि ३ जल ४, ठग ५ ठक्कुर ६ सोनार ७। ए दस न हुई अप्पणां, मंकड ८ बडूअ ९ विडाल १० ॥१॥" • इति प्रोच्य षोडशलक्षान् स्वकोशाद्दापयित्वा स धनी कोटीध्वजः कृतः । श्रीसिद्धराजस्य द्रविणस्यैका कोटि प्रतिवर्ष पुण्यव्यये । येन राज्ञा स्वमातुः श्रीमयणलदेव्याः पुण्यव्यये बाहलोडग्रामे यात्रिकलोककरो द्वासप्ततिलक्ष
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy