SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ ' इति महाभारतोक्तसंवादेन प्राहुः । अन्यदा सिद्धपुरे रुद्रमहालयप्रासादे निष्पद्यमाने आभूमन्त्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः । चतुर्दारेषु पित्तलमयश्रीजिनमूर्तिनां पादतलेषु नवग्रहान्मूर्तिमतो दृष्ट्वा पप्रच्छ, कोऽत्र विशेषः ?। श्रीहेमसूरिभिः प्रोचे, राजन् ! महेश्वरस्य भाले चन्द्रः, श्रीजिनेन्द्रस्य पादान्तेऽपि नवापि ग्रहा मूर्तिमन्तो भवन्तीति विशेषः । श्रीसिद्धराजो न मन्यते । ततो वास्तुविद्याविदः पृष्टाः । तत्र सामान्यलोकानां गृहद्वारं पञ्चशाखं, राज्ञः सप्तशाखं, रुद्रादिदेवानां नवशाखं, श्रीजिनस्यैकविंशतिशाखं द्वारम् । अन्यदेवप्रासादे एक एव मण्डपः, अष्टोत्तरशतं मण्डपा जिनप्रासादे । चतुर्दारेषु प्रत्येक सप्तविंशतेः सप्तविंशते: सद्भावात् । जिनस्य छत्रत्रयं सिंहासनं पद्मासनं, पदाधो नंव ग्रहाः यदुक्तम्___"प्राकारमण्डपच्छत्र-पर्यङ्कासनपद्ग्रहैः । निर्दोषदृष्टिमूर्त्या च, देवो नैव जिनात्परः ॥ १॥ आदिशक्तिजिनेन्द्राणा-मासने गर्भसंस्थिता । सहजा कुलजा ध्याने, पद्महस्ता वरप्रदा ॥२॥ अन्यदेवानां चेत्कश्चित्कारयति सूत्रधारश्च करोति तदा द्वयोर्विघ्नमुत्पद्यते, नान्यथा, वास्तुविद्यासर्वज्ञभाषितत्वात् । एतदाकर्ण्य प्रमुदितः श्रीजयसिंहदेवः स्वयं श्रीराजविहारे सौवर्णकलशाधिरोपणादिकमकारयत् । __ महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ।। १॥ अर्थकदा श्रीहेमसूरयः सिद्धनपोपरोधात्पत्तने चतुर्मासी स्थिताः । श्रीचतुर्मुखाख्यजिनालये श्रीनेमिचरित्रं व्याख्यान २९॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy