SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कुमारपाल K प्रबन्धः Kणापि तेनौषधाकुरेण स वृषभो मनुष्यतां प्राप । हृष्टा च यशोमती लोकवन्द्यमाना सुखभागजायत । तिरोधियत दर्भाद्य यथा दिव्यं तदौषधम् । तथाऽमुष्मिन् युगे सत्यो धर्मो धर्मान्तरैर्नृपः ॥ १ ॥ परं समग्रधर्माणां सेवनात्कस्यचित्क्कचित् । जायते शुद्धधर्माप्तिदर्भच्छन्नौषधाप्तिवत् ।।२।। ॥२८॥ तद्राजन ! जीवदयासत्यवचनाद्यविसंवादेन सर्वधर्माराधनं क्रियते । इति श्रीहेमाचार्योपदेशेन सभासदः श्रीसिद्धनपोऽपि हृष्टाः । अन्यदा राज्ञा पुनः पृष्टाः श्रीहेमसूरयः प्राहुः "पात्रे दानं गरुष विनयः सर्वसत्त्वानुकम्पा, न्याय्या वत्तिः परहितविधावादरः सर्वकालम । कार्यो न श्रीमदपरिचयः संगतिः सत्सु सम्यक्, राजन् ! सेव्यो विशदमतिना सैष सामान्यधर्मः ।। १ ॥" पुनः पात्रपरीक्षां भीमः" मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ १ ॥" . युधिष्ठिर प्राहः- . " सुखासेव्यं तपो भीम ! , विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजन् ? ॥ १ ॥ अर्जुनः--"श्वानचर्मगला गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोति युधिष्ठिर! ॥ १ ॥" द्वैपायन:--"न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमिमे चोभे, तद्धि पात्रं प्रचक्ष्यते ।। १॥" 茶米茶来来来来来来来来来来来来来来来来来来来来来条条 ॥२८॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy