________________
॥२७॥
राजः सर्वदर्शनेषु स्वस्तुतिपरनिन्दापरेषु शुद्धधर्मादिजिज्ञासया श्रीहेमसूरीन् पप्रच्छ, को धर्मः संसारपारदः? इति । सूरियोऽपि सर्वदर्शनाविसंवादेन पुराणोक्त शङ्खाख्यानं वदन्ति स्म । यथा___शङ्खपुरे शङ्क्षश्रेष्ठी । यशोमति भार्या । कालेन तस्यां निःस्नेहोऽपरां स्त्रियमूढवान् । नवीनपत्नीवशीकृतो यशोमत्याः. संमुखमपि न विलोकयति । दूना यशोमती चिन्तयति--
" फोडी नामु जु सीयली विसह जु महुरं नाम । सउकिहि नाम जु बहिनडी ए तिन्निवि खयजाउ ।।१॥
वरं रङ्ककलत्रत्वं, वरं वैधव्यवेदना। वरं नरकवासो वा, मा सपत्नीपराभवः ।। २ ॥" ___ एकदा कंचिद्गौडदेशागतं कलावन्तं बहुभक्त्याऽऽवयं तत्पार्श्वे पुरुषपशुकरणक्षमं किंचिदौषधं गृहीत्वा भत्रे भोजनान्तर्दत्तवती । तेनौषधेन भुक्तमात्रेण शलो वृषभोऽजनि । तदनु ज्ञाततद्वत्तान्तै लोकनिन्द्यमाना तत्प्रतीकारमजानाना स्वं दुश्चरितं शोचयन्ती कदाचिन्मध्यंदिने दिनेश्वरखरतरकरनिकरप्रसरताप्यमानाऽपि शाड्वलभूमिषु तं पतिवृषं चारयन्ती कस्याऽपि तरोस्तले विश्रान्ता निर्भरं विललाप । दैवात्तदा विमानाधिरुढो गौर्यान्वितः शिवो नभसा गच्छन् तद्विलापान् शुश्राव । गौर्याऽपि संजातकृपया पृष्टस्तदुःखकारणं प्राह शिवः, भवज्जातेविलसितमेतत्, यन्मयोऽपि जातोऽन
ड्वान् । ततः स्वरूपं सर्वं कथितम् । गौर्या प्रोक्तम्, तदौषधं किमप्यस्ति ? येनायं पुनः पुरुषो भवेत् । अतिनिर्बन्धे PE एतस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं निवेद्य जगामाग्रतो महेशः । ततश्च तदीश्वरवचनं श्रुत्वा यशोमत्याऽपि
तदीयां छायां रेखाङ्कितां कृत्वा तन्मध्यवर्तिन औषधाराङकुरानुच्छेद्य वृषभवदने सर्ववल्लीतृणादि क्षिप्तम् । अज्ञातस्वरूपे
।।२७।