________________
कुमारपाल
प्रबन्धः ।
॥२६॥
समीपस्थपमिनीस्त्रीकृतोत्तरंसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितवरं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, देवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्री ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः । मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवर इति त्रयाणां वरं दत्वा देवः स्वस्थानमगात् । प्रमुदितो ग्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाढ़र्य देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्राम जगाम । अथ हेमचन्द्रमुनेस्तत्तद्देवतावरप्रदानविद्वत्तादिगुणसंपदारञ्जितश्रीगुरुसङ्घसाम्मत्येन नागपुरोयव्यवहारिणा धनदाख्येन संवत् ११६६ वर्षे महामहैराचार्यपदं कारितम् । हेमवत्कान्तिमत्वाञ्चन्द्रवदाह्लादकत्वाच्च हेमचन्द्राचार्याः सर्वत्र प्रसिद्धाः । अन्येद्य : श्रीसिद्धराजो राजपाट्यां व्रजन श्रीहेमाचार्यं दृष्ट्वा चिन्तितवान्
"धर्मः किं मूर्तिमानेष, किमु साम्यसुधाम्बुधिः । मुनीन्द्रो नयनानन्दी, दृष्टोऽयं पापतापहृत् ।।१।।" हस्तिनं निरुद्धय यावत् किमपि ब्रूते राजा तावत्सूरय ऊचुः
“सिद्धराज ! गजराजमुच्चकैः, कारय प्रसरमेतमग्रतः । संत्रसन्तु हरितां मतङ्गजा-स्तैः किमद्य भवतैव भूभृता ॥१॥" - अनयोक्त्या चमत्कृतो मत्पार्श्वे समागम्यं श्रीमद्भिः सदा, इत्यभिधाय जगाम स्वधाम राजा ।
महीनाथा महातीर्थ, महोषध्यौ मुनीश्वराः । अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः ।।१।। इति विचिन्त्य सूरयोऽपि यथाऽवसरं राजसंसदि गत्वा राजानं रञ्जयामासुः । अथान्यदा संसारसागरतितीर्घः सिद्ध