________________
|॥२३॥
- इति वदन् सकलश्रीसङ्घसमक्षं रत्नकरण्डमिव रक्षणीयम्, उदुम्बरपुष्पमिव दुर्लभं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणा समर्पयामास । श्रीगुरुभिरभाणि
धनधान्यस्य दातारः, सन्ति क्वचन केचन । पुत्रभिक्षाप्रदः कोऽपि, दुर्लभः पुण्यवान् पुमान् ।। १ ।। धनधान्यादिसंपत्सु, लोके सारा च सन्ततिः । तत्रापि पुत्ररत्न तु, तस्य दानं महत्तमम् ।। २ ।। स्वर्गस्थाः पितरो वीक्ष्य, दीक्षितं जिनदीक्षया। मोक्षाभिलाषिणे पुत्र, तृप्ताः स्युः स्वर्गिसंसदि ।। ३ ।। महाभारतेऽप्यभाणि
तावद्भ्रमन्ति संसारे, पितरः पिण्डकाङ्क्षिणः । यावत्कुले विशुद्धात्मा, यती पुत्रो न जायते ।। १ ।। इति श्रुत्वा प्रमुदितेन चाचिगेनोदयनमन्त्रिणा च प्रव्रज्यामहामहोत्सवः कारितः । सोमदेवमुनि म दत्तम् । श्रीविक्रमात् ११४५ श्रीहेमसूरिणां जन्म, ११५४ दीक्षा च । अथान्यदा नागपुरे धनदनाम्नः श्रेष्ठिनो गृहे प्रथमालिकार्थं गतः ।' तद्गृहे रब्बाभोजनं स्वर्णराशि च दृष्ट्वाऽग्रगं वृद्धसाधु प्राह, यथा कस्मादस्य गृहेऽसमञ्जसमीदृशं ? एकतः स्वर्णराशिर्मोजने । तु रब्बा । स साधुरिति श्रुत्वोवाच, अभाग्यवशेनायं निर्धनो जातः निधानगतमपि स्वर्णमङ्गारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तम्, मया तु सुवर्णराशिददृशे। गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमायाङ्गारकराशौ करो दापितः, तत्सर्वं स्वर्ण जातम् । तत्प्रच्छादकः कश्चिद्वयन्तरः परब्रह्मतेजोऽसहिष्णुर्नष्टः । ततः संजातचमत्कारेण श्रेष्ठिना श्रीसङ्ग्रेन च हेमचन्द्रनाम दापितम् । ततः शनैः शनैर्ज्ञानेन तपसा विनयादिगणैर्वयसा च वर्धमानः निजौदार्यगाम्भीर्य
।।२३।।