SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल ॥२२॥ शना। सुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभिः कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन । अबाह्यमार्गे सुखसिन्धुमग्नं, लीनं परब्रह्मणि यस्य चेतः ॥१॥ कलकं कुरुते कश्चि-त्कुलेऽतिविमले सुतः । धननाशकरः कश्चिद्व्यसनैः पुण्यनाशनैः ॥ २ ॥ पित्रोः संतापकः कोऽपि, यौवने प्रेयसीमुखः । बाल्येऽपि म्रियते कोऽपि, स्यात् कोऽपि विकलेन्द्रियः ।। ३ ।।। सर्वाङ्गसुन्दरः किंतु, ज्ञानवान् गुणनीरधिः । श्रीजिनेन्द्रपथाध्वन्यः, प्राप्यते पुण्यतः सुतः ।। ४ ।। इति श्रीगुरुमुखादाकर्ण्य संजातप्रमोदः प्रसन्नश्चाचिगस्तत्र श्रीगुरुपादारविन्दनमस्यायै समायातेनोदयनमन्त्रिणा धर्मबान्धवधिया निजगृहे नीत्वा गुरुगौरवेण भोजयाञ्चके । तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुकूलत्रयं द्रव्यलक्षत्रयं चोपनीय सभक्तिधामावजितश्चाचिगः सानन्दं मन्त्रिणमवादीत् । मन्त्रिन् ! क्षत्रियस्य मूल्येऽशीत्यधिकः सहस्रः १०८०, अश्वमूल्ये पञ्चाशदधिकानि सप्तदश शतानि १७५०, सामान्यस्यापि वणिजो नवनवतिगजेन्द्राः, एतावता नवनवतिर्लक्षा भवन्ति, त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे । अतो मत्सुतोऽनर्घ्यः, त्वदीया भक्तिस्त्वनय॑तमा, तदस्य मूल्ये सा भक्तिरस्तु, न तु मे द्रव्येण प्रयोजनम्, अस्पय॑मेतन्मम शिवनिर्माल्यमिव, दत्तो मया पुत्रो. भवताम्, इति चाचिगवचः श्रुत्वा प्रमुदितमना मन्त्री तं परिरभ्य साधु ! साधु ! युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच । त्वयाऽयं पुत्रो ममापितः, परं योगिमर्कट इव सर्वेषामपि जनानां नमस्कारं कुर्वन केवलमपमानपात्रं भविता । श्रीगुरूणां तु समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम् । ततः सो भवद्विचार एव प्रमाणं, ।।२२।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy