________________
प्रबन्धः
धैर्यवैनयिकादिगुणगणरावजिनधीगुरुगच्छश्रीसङ्घलोकः कदाचित् श्रीगुरूनापृच्छय युगादी लोकोपकाराय परब्रह्ममयपकुमारपाल रमपुरुषप्रणीतमातृकाष्टादशलिपिविन्यासप्रकटनप्रवीणब्राह्म दिमूर्तिविलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचंद्रः ।
ततः कियति मार्गेऽतिक्रान्ते सति मिथ्यात्वतमःकरालेऽस्मिन् कलिकालेऽस्य श्रीजनशासनप्रभावकस्य महापुरुषर्य बह्व॥२४॥ पायसंकुले पथि मा भूभ्रमणप्रयासः, इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशीथे । अजिह्म
परब्रह्मवर्चसं पद्मासनासीनमर्धनिमीलितलोचनं समाधियोगस्वाधीनस्वान्तं ध्यानाधिरूढं श्रीहेमचन्द्रं दृष्ट्वा प्रोवाच--
"रुद्ध प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले । भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् ।।१।।
संकल्पमात्रादपि सिद्धिकार्याः, वाञ्छन्ति तेनैव तथापि किंचित् ।
इच्छाविनाशेन यदस्ति सौख्यं, त एव जानन्ति गुरुप्रसादात् ।। २ ।।" तथाऽप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामन्त्रान् श्रीविद्याप्रवादसंवादसुन्दरान् साम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चादागताः । एकदा श्रीगुरूनापृच्छयान्यगच्छीयदेवेन्द्रसूरिमलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थं गौडदेशं प्रति प्रस्थिताः ।
खिल्लूरग्रामे च त्रयो जना गताः । तत्र ग्लानो मुनिवैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्ककरणकृतातिर्यावद्ग्रामाध्यक्षश्राद्ध भ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्री सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः स्वं रैवतके
।।२४।।