SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXX कुमारपाला कारयित्वा व्रती जातः । दीक्षादिन एव षडविकृतित्यागं कृत्वा एकान्तरोपवासकरणाभिग्रहं ललौ । कालेनाधीतसिद्धान्तो । ॥२०॥ गीतार्थः सन् सूरिपदे स्थापितः श्रीगुरुभिः । बहुवर्षाणि पालितसंयमपर्यायः प्रान्ते त्रयोदशक्षपणैः स्वर्गतः । तत्पट्टे | प्रद्युम्नसूरिः । तच्छिष्यश्रीगुणसेनसूरिः । तत्पट्टे श्रीदेवचन्द्रसूरय एकदा विहरन्तो धन्धूकपुरे प्रापुः । तत्र मोढवंशे चाचिगश्रेष्ठी, पाहिनी भार्या । तयाऽन्येद्य : स्वप्ने चिन्तामणिदृष्टः, परं गुरुभ्यो दत्तः । तदा तत्रागतश्रीदेवचन्द्रगुरवः पृष्टाः स्वप्नफलम् । गुरूभिरूचे, पुत्रो भावी तव चिन्तामणितुल्यः, परं स सूरिराट् जनशासनभासको भविता, - गुरुणां रत्नदानात् । इति गुरुवचः श्रुत्वा मुदिता पाहिनी तद्दिने गर्भ वभार । समये पुत्रजन्म ११४५ कार्तिकपूर्णिमारात्रिरूपे । तदा वागशरीरासी-द्वयोम्नि भाव्येष तत्त्ववित् । जिनवज्जिनधर्मस्य, स्थापकः सूरिशेखरः ॥ १ ॥ ___ जन्मोत्सवपूर्व चाङ्गदेवेति नाम. दत्तम् । क्रमेण पञ्चवार्षिको मात्रा मोढवसहिकायां देववन्दनायागतयाऽगतः । बालचापल्यस्वभावेन देवनमस्करणार्थमागतश्रीदेवचन्द्रगुरुनिषाद्यायां निषण्णः । तथा दृष्ट्वा गुरुभिरूचे, पाहिनीसुश्राविके ! . स्मरसि स्वप्नविचारं पूर्वकथितं ?, संप्रति संवादसफलम् । बालकाङ्गलक्षणानि विलोक्य मातुरग्रेऽकथि । यद्ययं क्षत्रियकुले तदा सार्वभौमो नरेन्द्रः । यदि ब्राह्मणवणिक्कुले तदा महाऽमात्यः । चेद्दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृत ।।२०।। - युगमवतारयतीति । साऽपि पाहिनी गुरुवचोऽमृतोल्लासिता ससुता गृहं गता । गुरवोऽपि शालायामागत्य श्रीसङ्घमाकार्य XXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy