________________
।।१७।।
प्रधानैः सद्यः । देशः सुखं तस्थौ । प्रधान णितम्, कथं न प्रतिगच्छसि ? । सिद्ध शेन भाणितम्, मन्त्रिपुरुहूतास्तं लीलानिधिं भवत्प्रभु दिदृक्षे । तेऽपि मदनवर्मणमभणन् । अर्थेन तोषितः स क्लेशी राजा परं भणति, तं राजेन्द्रं द्रष्टुमीहे । ततो मदनेन भणितम् एतु सः । ततः सैन्यं तथास्थं मुक्त्वा मितसैन्यस्तत्रोद्यानमायातः । यत्र महाप्राकारस्थे सौधे, मदनवर्माऽस्ति । प्राकाराबहिर्योधलक्षास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथत् द्वाःस्थैः । आगम्यतां जनचतुष्कण सहेति राज्ञा ज्ञापितम् । आगतस्तथा सिद्धराजः । यावत्पश्यति काञ्चनतोरणानि सप्त द्वाराणि । ददर्श रजतमहारजतमयीर्वापीः, नानादेशभाषावेषविचक्षणा निस्सीमसौभाग्यधारिणीः स्त्रीश्च, पणववेणवीणामृदङ्गादिकलासक्तं समग्रपरिजनम् । शुश्राव गीतानि । नन्दनाधिकमुद्यानं, हंससारसादीन् खगान्, हैमान्युपकरणानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागानङ्गरागान्, उत्तुङ्गपुष्पकरण्डांश्च, एवं पुरः पुरः पश्यन् अग्रतः साक्षादिव मदनं मधुरे वयसि वर्तमानं, मितरत्नमुक्ताफलाभरणं, सर्वाङ्गलक्षणं काञ्चनप्रभं, मधुरस्वरं, तामरसाक्षं, तुङ्गघोणं, उपचितगात्रं, मदनवर्माणमपश्यत् । मदनोऽप्यभ्येत्याश्लिष्य च हेमासनं दत्वा तमभाणीत् । सिद्धन्द्र ! पुण्यमस्माकमद्य, येन त्वमतिथिः संपन्नः । सिद्धनपः प्राह, हे राजन् ! आवर्जनावचनमिदं मिथ्या, यत्तु मन्त्रिणामग्रे कबाडीत्युक्तं तत्सत्यम् । मदनो जहास । राजन् ! केन विज्ञप्तमेतत् ?। सिद्ध शः प्राह, तव मन्त्रिभिः । कोऽभिप्रायो मन्निन्दने । मदनोऽप्याह, देव ! कलिरयं, स्वल्पमायुः, मिता राज्यश्रीः, तुच्छं बलम्, तत्रापि पुण्य राज्यं लभ्यते, तदपि चेन्न भुज्यते, रुल्यते विदेशेषु तत्कथं न कर्बाटिकत्वम् ? । सत्यमेतदित्याह सिद्धेशः, धन्यस्त्वं यस्यत्थं शर्माणि, त्वयि दृष्टे सफलं जोवितमस्माकम्, चिरं राज्यं भक्ष्व
॥१७॥