SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कुसारपाला क्रियन्ते प्रतिरथ्यं छण्टनकानि यक्षकर्दमैः । प्रासादे प्रासादे संगीतकानि । देवे देवे महापूजाः । प्रतिगहं सारा भोजन- प्रबन्धः ॥१६॥ व्यापाराः । राज्ञः सत्रागारे तु कूरावस्रावणानि मुत्कलानि न मुच्यन्ते, किं तु गर्तायां निक्षिप्यन्ते, यदि मुच्यन्ते तदा सघण्टो हस्ती निमज्जति । राज्ञोऽश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कर्परचणैलिपर्वोत्सवः । रात्रौ विपणीन् वणिजो न संवृण्वन्ति, उद्धाटान् विमुञ्चन्ति । प्रातरागत्योपविशन्ति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैव लोकानां, तं विनाऽपि प्रकारान्तरैरपि सिद्धार्थत्वात् । राजा तु मया न दृष्टः । इदं तु श्रुतम् । नारीकुञ्जरः स सभायां कदापि नोपविशति, केवलं हसितललितानि प्रत्यक्ष इन्द्र इव तनोति । एवं मन्त्रिवचः श्रुत्वा सिद्धराजोऽमि| तसैन्यैर्महोबकं प्रति प्रतस्थे । तदासन्नक्रोशाष्टकप्रदेशे तस्थौ । क्षुभितो देशः । स्थानाञ्चलितं महोबकपत्तनम् । प्रधानमदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृतो विज्ञप्तः, स्वामिन् ! गौर्जरः सिद्धराज उपनगरमायातोऽस्ति, स कथं निवर्तनीयः । मदनवर्मणा स्मित्वा भणितम, सिद्धराजः सोऽयं यो धारायां द्वादशवर्षाणि विग्रहायास्थात् । कबाडी राजा वाच्यः स भवद्भिर्यदि नो भुवं जिघृक्षसि तदा युद्ध करिष्यामः, अथार्थेन तृप्यसि तदाऽर्थं गृहाणेति । ततो यद्याचते स वराकस्तद्देयं भवद्भिः, न वयं धने दत्ते त्रुट्यामः, सोऽपि जीवतु चिरं वित्तार्थं कृछ्राणि कर्माणि कुर्वाणोऽस्ति । राज्ञो । वचो लात्वा मन्त्रिणः स्थानमगुः । तावता सिद्ध शेन कथापितम, दण्डं दत्थं । मन्त्रिभी राजवाक्यं दूतमुखेन भाणितम्, यद्यर्थमीहसे तदाऽर्थ लाहि, यदि भूमि तर्हि युद्धयामहे वयम् । मदनवर्मदेवाय ज्ञापितं भवदागमनम् । तेनास्मत्प्रभुणोक्तम, कबाडीराजाऽर्थेन तर्पणीयः । स सिद्धराजा तल्लीलया विस्मितः षण्णवतिकोटीः कनकस्यायाचीत् । दत्तास्ताः KXXXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy