SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ XXXXXXXXXX XXXXXXXXXXXXXXX देयम् । मन्त्री सप्तकृत्वः प्रक्षाल्यार्पयति । योगिनीभ्यामुक्तम्, हे राजन् ! ईदृशशक्तियुक्तस्त्वमेव, युक्ततममेव, सिद्धचक्रवतिबिरुदं तवेति चमत्कृते गते स्वस्थानं योगिन्यौ। लोकोऽपि विस्मितः । राज्ञो बिरुदं सर्वत्र प्रसिद्धिमगात् । अर्थकदा सिद्धराजो 'द्वादशो रुद्रः' इति विदितबिरुदो दिग्विजयं कुर्वन् मालवदेशराजधानी धारां द्वादशवर्जग्राह । प्रतोली-- त्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जयत् । यशःपटहो मृत्वा व्यन्तरोऽभूत् । मालवेन्द्रो नरवर्मा र जीवन् गृहीतः । जयसिंहराज्ञः खड्गो द्वादशवर्षाणि निष्प्रत्याकारोऽस्थात् । नरवर्मचर्मघटितमेव प्रत्याकारं करोमीति प्रतिज्ञावशात्तस्य वितस्तिमात्रं चर्माज्रिसत्कमुदतीतरत् । अत्रान्तरे प्रधानविज्ञप्तम्, राजन् ! 'राजा अवध्य एव' इति नीतिवचः, तस्मान्मोक्तुमर्होऽयम् । ततो मुक्तः स काष्ठपञ्जरे क्षिप्तः । नरवर्मचर्मान्यचर्माभ्यां राजा निजकृपाणे प्रत्याA कारः कारितः । तदनु निखिलदेशसाधनादनन्तं धनं संघटितम् । पत्तनसीमायां समायातः । तत्र सन्यनिवेशः । सभायां - वैदेशिकेन भट्टेन भणितम्, अहो ! सिद्धनृपतेः सभा मदनवर्मण इव मनोविस्मयजननीति । राज्ञा पृष्टः, कोऽसौ मदनवर्मा नपः ? । भट्टः प्राह, देव ! पूर्वस्यां महोबकं नाम पत्तनं, तत्र राजा श्रीमदनवर्मा प्राज्ञस्त्यागी भोगी धर्मी नयी च । तस्य च राज्ञः पुरं सहस्रशो दृष्टमपि वर्णयितुं न शक्नोति कोऽपि । यदि मम वचोविश्वासो न स्यात्तदा कोऽपि विदुरो मन्त्री प्रेष्यते, स च विलोक्य राज्ञे विज्ञपयति इति श्रुत्वा मन्त्रिणं प्राहिणोत् । सह भट्रेन षण्मासान् यावद्विलोक्य पश्चादायातेन मन्त्रिणा विज्ञप्तम्, श्रीसिद्धभूप ! वयमितः प्रहितास्तत्र वसन्तोत्सवे प्राप्ताः । तत्र च वसन्तोत्सवे गीयन्ते वसन्तान्दोलकादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः । मकरध्वजभ्रान्तिकारिणो विलसन्ति लक्षशो युवानः । KXXXXXXXXXXXXXXXXXXXXXXXXXXX ॥१५॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy