________________
राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशिनृपस्तत्पुत्रो नरवीरः सप्तव्यसनवान् पित्रा निष्काशितो मेदपाट
परिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यंदा जयताकसार्थवाहस्य मालवकादागच्छन् सार्थः सर्वोऽपि लुण्टितस्तेन । ॥२१७| सार्थवाहस्तु पश्चाद्गत्वा मालवेशं संतोष्य तदर्पितसैन्यमानीय पल्लीमवेष्टयत् । तन्महदलं ज्ञात्वा नष्टो नरवीरः । तत्पत्नी
सगर्भा हता भूपतितो बालोऽपि । पल्ल्यां कीटमारिः कारिताः । ततो मालवके गत्वा राज्ञोऽग्रे स्वरूपे निरूपिते राज्ञा हत्याद्वयं तव लग्नम् , अतोऽद्रष्टव्यमुखोऽसीति निष्काशितः स्वदेशात् । स च सार्थवाहो जयताकः पदे पदे लोकनिन्द्यमानः पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीव्र तपस्तप्त्वा मृत्वा च जयसिंहदेवोऽजनि, स च हत्याद्वयपापादपुत्रः। यतः
पसुपक्खिमाणसाणं, बाले जो विह विओवए पावो। सो अणवच्चो जायइ, अह जायइ तो विवजिज्जा ॥१॥ नरवीरोऽपि देशान्तरं गच्छन् श्रीयशोभद्रसूरीणा मिलितः । प्रोक्तश्च गुरुभिः--भो क्षत्रिय ! रूपसौभाग्यवानाकर्णकर्षितकोदण्डो मृगयापर एवंविधं क्षात्रगोत्रं प्राप्य कथं जीववधं कुरुषे ।। क्षत्रियोऽसि नराधीश !, प्रतिसंहर सायकम् ।। आर्तत्राणाय वः शस्त्रं, न प्रहर्तुमनागसि ।। १ ।। वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणधारणात् । तृणाहाराः सदैवैते, हन्यन्ते । पशवः कथम् ॥ २॥ वरमाजन्म दारिद्रय, वरं दास्यं परौकसि । न तु प्राणहरस्तेयसंभवो विभवो महान् ।। ३ ।। एतदाकर्ण्य लज्जितः प्राह--महात्मन् ! "बुभुक्षितः किं न करोति पापम्" । ततो गुरुवचसा व्यसनानि मुक्तानि । श्राद्धः ।
शम्बलादिकं दत्तम् । स च क्रमेण नवलक्षतिलङ्गदेशस्थ एकशिलापुर्यां गतः । तत्र ओढरव्यवहारिणो गृहे भोजनादि- ॥२१७॥ 1 वृत्त्या स्थितः । श्रीयशोभद्रसूरयोऽपि तत्रैव पुर्यां चतुर्मासी स्थिताः । पुराऽपि पुरमध्ये गुरूपदेशेनौढरश्राद्धन श्रीवी