________________
मारपाला
।२१८॥
XXXXXXXXXXXXXXXXXX
रचत्यं कारितमस्ति समग्रपुरलोकप्रसिद्धम् । तत्र चैत्ये पर्युषणापर्वणि श्रीमानोढरः सकुटुम्बः सप्रधानपूजोपकरणः पूजार्थ गतः । विधिना स्नात्रपूजनादि कृत्वा सार्द्ध मायातं नरवीरं प्राह-गृहाणेदं पुष्पादि, कुरु श्रीजिनेन्द्रपूजाम्, फलेग्रहि |प्रबन्धः । विधेहि स्वजन्म जीवितादि । ततो नरवीरेणाचिन्ति--अदृष्टपूर्वोऽयं परमेश्वरः सकलभुक्तिमुक्तिप्रदश्च कथं परकीयपुष्पादिभिः पूज्यते । ततः स्वकीयपञ्चवराटकक्रीतैः पुष्पैरानन्दाश्रुप्लावितदृक् प्रसन्नमनोवाक्कायः पारमेश्वरी पूजामकरोत् । तदनु अहो ! यद्य ते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वते, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतपः करोमीति
गुरुमुखेनोपवासमकरोत् । पारणे शुद्धश्रद्धया साधुदानमदात् । ततः प्रभृति जिनधर्माभिमुखात्मा प्रकृतिभद्रकः सन् a मृत्वा त्वं त्रिभुवनपालनृपभूर्भूमीपतिर्जातः । ओढरस्तूदयनमन्त्री । यशोभद्रसूरयस्तु वयम् । त्वं पुनरितो निजायुष्प्रान्ते ।
महद्धिव्यन्तरदेवत्वमधिगम्य ततश्चयुत्वा चात्रैव भरते भद्दिलपुरे शतानन्दनृपधारिण्योः पुत्रः शतबलाह्वः पैतृक राज्यमवाप्य भाविपद्मनाभजिनधर्मदेशनां श्रुत्वा प्रबुद्धो राज्यलक्ष्मी त्यक्त्वा प्रव्रज्यैकादशमगणधरो भूत्वा. केवलज्ञानमासाद्य मोक्षं यास्यसि ।। एवं राजन् ! भवादस्मात्तार्तीयीके भवे तव । जिनधर्मप्रभावेण, मुक्तिश्रीविता ध्रुवम् ।। १ ।। इति श्रीरिमन्त्राधिष्ठात्रीदेवीगिरा मया । कथयामासिरे सम्यग् , भवास्ते भूतभाविनः ॥ २॥ आसन्नसिद्धिश्रवणात्तल्लाभा-. दिव निर्वृतः । अथ विज्ञपयामास, प्राञ्जलिर्जरप्रभुः ।। ३ ।। ज्ञानङ्गिले कलावस्मिन् , सर्वज्ञ इव सम्प्रति । अतीतानागतं
॥२१८॥ ब्रूते, कः पूज्यादपरो ननु ॥ ४॥ यथा भागवती भाषा, भवेन्न व्यभिचारिणी । प्राग्भव्यपि तथैवेयं, तद्धधानातिशयादिव ।। ५ ।। परं कौतुकमात्रेण, दासी तां प्रच्छयाम्यहम् । आप्तमेकशिलां प्रेष्य, यद्यादिशति मां प्रभुः ।। ६ ।। विशिष्य