SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ।।२१६ ।। व्याख्याने तु राज्ञा पृष्टम् - भगवन् ! युवाभ्यां किं कृतम् ? | श्रीगुरवः प्राहुः -- राजन् ! देवपत्तने श्रीचन्द्रप्रभप्रासादे दीपेनाखुना गृहीतेन चन्द्रोदयो लोऽस्माभिर्दृष्टः स तु हस्तघर्षणेन देवबोधिना विध्यापितः । राजा चमत्कृतः स्वपौरुषैनिर्णयमकारयत् । तथेति जातेऽहो ! निरतिशयकालेऽपि श्रीगुरूणां महान् ज्ञानातिशय इति श्रीगुरुश्लाघापरः प्राहकोऽहं पूर्वभवेऽभूवं ?, भविता कश्र्व भाविनि ? | सिद्धराजः कुतो मह्यं प्रसह्य द्रुह्यति स्म च ।। १ ।। कस्मादुदयनामात्यो, यूयं च मयि वत्सलाः । कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् ।। २ ।। न हि प्राग्जन्मसंबन्धं विना कस्यापि कुत्रचित् । वैरं च सौहृदय्यं च स्यातामात्यन्तिके ध्रुवम् ।। ३ ।। उक्त ं च- यं दृष्ट्वा वर्द्धते क्रोधः, स्नेहश्व परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरजः ॥ १ ॥ यं दृष्ट्वा वर्द्धते स्नेहः, क्रोधश्व परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥ २ ॥ ततो गुरुभिरूचे - राजन् ! निरतिशयकालोऽयम्, यतः श्रीवीरनिर्वाणाच्चतुःषष्टिवर्षेश्वरम केवली जम्बूः सिद्धिं गतः, तेन सह द्वादशवस्तूनि त्रुटितानि - मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवल सिज्झणा य जंबुंमि वुच्छिन्ना ॥ १ ॥ वर्षसहस्रेण सर्वं पूर्वगतं श्रुतं व्यवच्छिन्नम्, सम्प्रति त्वल्पं श्रुतं तथाऽपि देवतादेशेन विज्ञाय किमपि कथयिष्यत इत्युक्त्वा सिद्धपुरे सरस्वतीतीरेमं विधाय सूरिमन्त्राद्यपीठाधिष्ठात्रों त्रिभुवनस्वामिनीं देवीमाराध्य तन्मूखेन पूर्वभ वादि श्रुत्वा राज्ञः पुरः सभासमक्षमेवं प्राहुः । यथा- प्रबन्धः । ।।२१६।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy