SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । ।१९६।। समासादितं, लेभे पुण्यमयं कदाऽपि न पुनः सङ्घाधिपत्यं पुनः ॥७॥ अर्हतामपि मान्योऽयं, सङ्घः पूज्यो हि सर्वदा। तस्याधिपो भवेद्यस्तु, स हि लोकोत्तरस्थितिः ॥ ८॥ चतुर्विधेन सङ्घन, सहितः शुभवासनः । रथस्थदेवताग्रारजिनबिम्बमहोत्सवैः ॥ ९॥ यच्छन् पञ्चविधं दानमुद्धरन् दीनसंचयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजरोपणम् ॥ १० ॥ शत्रुञ्जये रैवते च, वैभारेऽष्टापदाचले। सम्मेतशिखरे देवानर्चयन् शुभदर्शनः ॥ ११ ॥ सकलेष्वथ चैकस्मिन् , शत्रुञ्जयगिरीश्वरे । इन्द्रोत्सवादिकं कृत्यं, कुर्वन् सङ्घपतिर्भवेत् ।। १२॥ . हे श्रीचौलुक्यभूप! तीर्यतेऽनेन, भवाम्भोधिरिति तीर्थम् , तच्च द्विधा । तथाहि जङ्गमं स्थावरं चैव, तीर्थं द्विविधमुच्यते । जङ्गमं मुनयः प्रोक्तं, स्थावरं तनिषेवितम् ॥ १॥ तत्र श्रीजिनगणधरादयः श्रीसङ्घश्चतुर्विधश्च जङ्गमतीर्थत्वेनाराधनीयाः । स्थावरतीर्थानि त्वमूनि श्रीआद्याङ्गनियुक्ती प्रोक्तानि । यथा- - जम्माभिसेयनिक्खमणचवणनाणुप्पया य निव्वाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥ १॥ अट्ठावयमुजिते, गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं, चमरुप्पायं च वंदामि ।।२॥ परं राजन् ! सकलतीर्थावतारं महाप्रभावनादिकालीनं सर्वतीर्थयात्राफलदं च श्रीशत्रुञ्जयतीर्थ समस्ति । श्रीअतिमुक्तकेवलिना नारदाने जं लहइ अन्नतित्थे, उग्गेण तवेण बंभचेरेण । तं लहइ पयत्तेणं, सित्तुजगिरिमि निवसंतो ॥ १ ॥ ॥१९६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy