________________
१९५।।
देसंमि तित्थनमणत्थं । अन्नसमयंमि होही, मग्गेसु किमेरिसं सुत्थं ।। ७ ।।
इत्यादि वैदेशिकश्राद्धानां तादृग्गुरुवचनभक्तिगर्भवचनारचनाचमत्कृतः प्रत्यहं मया सौवर्णकमलैर्गुरुपादौ पूजनी - यावित्यभिग्रहं जग्राह । यात्रोत्सवेऽपि कृतमहोत्साहः कतिचिद्दिनान्यतिक्रम्याथ श्रीजिनशासनप्रभावनाविधानसावधान भगवन् ! कतिधा यात्रा ? इति प्रपच्छ श्रीगुरून् । गुरुः प्राह — श्रीचौलुक्यदेव ! यात्रां त्रिधा प्राहुः । यथा-अष्टाहिकाभिधामेकां रथयात्रां तथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ।। १ ।। तत्र च तीर्थयात्रा क्रियमाणा सर्वप्रकारपुण्यपरिपोषकारणम् । यतः -
अग्रणीः शुभकृत्यानां, तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि यत्र सीमानमश्नुते ।। १ ।। आरम्भाणां निवृत्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थौन्नत्यप्रभावो जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं, सिद्ध े रासन्नभावः सुरनरविभुता तीर्थयात्राफलानि ॥ २ ॥ पूर्वेषां द्योतितो मार्गः, स्वपुत्राणां च दर्शितः । उन्नति शासनं नीतं, तीर्थयात्रां प्रकुर्वता ।। ३ ।। यातः श्रीभरतः समं निजकुलैरष्टापदं श्रेणिको, वैभारं गिरिमुञ्जयन्तमचिरादामोऽपि नन्तुं जिनान् । तत्पन्था क्रियते स एष विधिना तीर्थेषु यात्रामिमां कुर्वाणैर्निजविक्रमेण पुरुषैः कैरप्यशून्योऽधुना ॥ ४ ॥ यात्रायामपि सङ्घशपदं भाग्यैरवाप्यते । तीर्थकृन्नाम कर्मापि, बध्यते येन मानवः ।। ५ ।। ऐन्द्रपदं चक्रपदं श्लाघ्यं श्लाघ्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ।। ६ ।। संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः, कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं
।। १९५ ।।