SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९३॥ खनमिति श्रुत्वा लज्जितो भूपतिः। अहो ! गुरूणां नव्यग्रन्थकरणशक्तिरस्खलिता, मम तु तल्लेखनेऽपि न सामर्थ्य किं मम श्राद्धत्वम् ? इति ध्यात्वाऽभ्युत्थाय क्षपणप्रत्याख्यानं कारयतेत्याह, अद्य किमर्थमुपवासः ? इति गुरुभिः पृष्टे । अतः परं तदा भोक्तव्यं यदा श्रीताडपत्राणि पूरितानि भवन्ति लेखकानामित्याह श्रीनृपतिसिंहः । ततो दूरे श्रीताडाः कथं शीघ्रमायान्ति ? इति गुरुसामन्तादिभिः सबहुमानं वार्यमाणोऽपि स्वयं कृतोपवासः ।। अहो ! जिनागमे भक्तिरहो ! गुरुषु गौरवम् । श्रीकुमारमहीभर्तुरहो! निस्सीमसाहसम् ।। १॥ इत्यादि श्रीसङ्ग्रेन स्तूयमानः स्वावासोपवनमागत्य खरताडान् चन्दनकपुरादिभिरभ्यर्च्य मन्त्रसिद्ध इवैवमाह-स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताडद्रुमतां तदा ॥ १ ॥ कथयित्वेति गाङ्गेयमयं अवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कन्धदेशे न्यवीविशत् ।। २ ॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीताडद्रुमतां तांश्च, निन्ये शासनदेवता ।। ३॥ प्रातरारामिका राज्ञे निवेदितवन्तः । राजाऽपि तान् परितोषिकदानेन समानन्द्य पत्राणि पूगशः समानाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमसूरिपादाः । किमेतदिति पृष्टः सन् , गुरुवे राट् व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ।। १।। हेमाचार्यस्तदाकर्ण्य, कर्णयोरमृतोपमम् । नपेण पारिषद्यश्च सहारामं तमागमत् ।। २ ।। एतददृष्टाश्रुतपूर्विणो ब्राह्मणा देवबोध्यादयोऽन्येऽपि लोकाश्च खरताडेषु श्रीताडतां दृष्ट्वा विस्मयाश्चर्यमया बभूवांसः । तदा च हेमाचार्यो जनमतमुपश्लोकयितुमिदमाह अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तरा-द्यच्छक्त्याऽत्र युगेऽपि ताडतरवः श्रीतालतामागताः । ।।१९३।। श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्राप्नुयुः ।। १ ।। CEXXXXXXXXX XXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy