________________
मारपाल
।१९२।।
।। ७ ।। त्रिभिर्विशेषकम् ॥
श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभो र्याः श्रुत्वा क्षितिवासवेन विहिते नरशेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेनिर्गतैः स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ।। १ ।। इत्थं चतुर्दशशतप्रमितान् विहारान्, नव्यान् विचित्रशुभबिम्बविराजमानान् ।
निर्माप्य षोडशसहस्रमितांच जीर्णोद्धारान् नृपो निजरमा सफलीचकार ||२||
अथ जिनागमसमाराधनतत्परेण राजर्षिणैक विशतिज्ञनकाशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्यं नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैर्लेखयित्वा स्वावासे नीत्वा रात्रि जागरणप्रातः पट्टगजेन्द्राधिरूढधृताने कातपत्रकनकदण्डद्वासप्ततिचामरो पवीज्यमानादिमहोत्सवपरम्परापूर्वकं शालायां नीत्वा द्वासप्ततिसामन्तादियुतेन श्रीगुरुभिर्व्याख्यायमानं सौवर्णरत्नपट्टदुकूलादिपूजाविधिना श्रुतम् । च एवमेकादशाङ्गद्वादशोपाङ्गादिसिद्धान्तप्रतिरेका सौवर्णाद्यक्ष रैर्लेखिता वाच्यमाना च श्रीगुरुपार्श्वे श्रुता शुद्धविधिना । योगशास्त्रवीतरागस्तवद्वात्रिंशत्प्रकाशाः सौवर्णाक्षरा हस्तपुस्तिकायां लेखिताः । प्रत्यहं मौनेनैकशो गुणनम् । सा पुस्तिका देवतावसरे पूज्यते स्म । स्वगुरुकर्तृका ग्रन्था मया नियमेन लेखनिया इत्यभिग्रहं जग्राह । सप्तशतलेखका लिखन्ति ।
एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशालाविलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरुपार्श्व पृच्छा । गुरुभिरुचे श्री चौलुक्यदेव ! सम्प्रति श्रीताडपत्राणां त्रुटिरस्ति ज्ञानकोशे, अतः कागदपत्त्रेषु ग्रन्थले -
प्रबन्धः ।
।।१९२।।