________________
। १७९ ।।
योगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः ॥ ३ ॥” यतः -- अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् ।।
तदमि कृपया दीयमानं न पात्रापात्रविभागमपेक्षते । धर्मोपष्टम्भबुद्ध्या तु पात्रायैव तत्तु त्रिधा । यदाह-उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया । अविरयसम्मद्दिट्ठी, जहन्नयं पत्तमक्खायं ॥ १ ॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु वरमेको महाव्रती ॥२॥
महाव्रतिसहस्रेषु वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं न भूतं न भविष्यति ।। ३ ।। इति श्रीगुरूपदेशोल्लासितसा धमकवात्सल्यबह्वादरः श्रीकुमारपालः सत्रागारं कारयामासिवान् । यदुक्तम्अह कारावर राया, कणकोट्ठागारघयघरोवेयं । सत्तागारं गुरुयं विभूसियं भोयणसहाए ॥ १ ॥ तस्सासन्ने रन्ना, कारविया वियडतुंगवरसाला । जिणधम्महत्थिसाला, पोसहंसाला अइविसाला ॥ २ ॥
तत्र श्राद्धाः सुखेनासते शेरते च ।।
तत्थ सिरिमालकुल नहनिसिनाहो नेमिनागअंगरुहो । अभयकुमारो सेट्ठी, कओ य अहिगारिओ रन्ना ।। ३ ।। इत्थंतरंमि सिद्धपाण सिरिपालसूएण कविणा उत्तम्
क्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो, रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध वा सुवर्णाचलः । क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् || १॥
***********
************
।। १७९ ।।