________________
मारपाला
१७८॥
ततो द्वादशव्रते तव साधर्मिकवात्सल्यमूचितम । ततो राज्ञा स्वाज्ञावधि श्राद्धानां करो मुक्तः प्रतिवर्ष द्वासप्ततिलक्षद्रव्यमितः । त्रुटितसार्मिकस्य समागतस्य दीनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः । श्रीगुरूणां कथितं यदुत साध- *प्रबन्धः । मिको भग्नो ज्ञाप्यः । एकदा वर्षलेखके विलोकिते एका कोटिरायाता । यावत्तां दापयति तावताऽभडेनोक्तम्-देव ! द्विधा कोशः, स्थावरो जङ्गमश्च, वयं तु जङ्गमकोशस्थानीया इति जल्पन्निषिद्धः, मम नियम एवं बहुवर्षाण्यभिग्रहः । एकदा कश्चिच्चारण एकवर्णान् पञ्चशततुरगान् दृष्ट्वा कञ्चन पप्रच्छ कस्यैते तुरगाः ? इति । तेनोक्तम्-श्रीकुमारपालस्य शालायां मुखवस्त्रिका योऽर्पयति सारां करोति तस्यैते, द्वादशग्रामाश्च राज्ञा दत्ताः, इति श्रुत्वा पपाठ
रुडउं पारसनत्थ जइ एहवउं एजाइसिइ। सहसिइ सेवड सत्थ कुमरनरिंदह बाहिरउं ॥१॥ एकदाआरोहन्ति सुखासनान्यपटवों नागान् हयांस्तजुषस्ताम्बूलाद्य पभुञ्जते नटविटाः खादन्ति हस्त्यादयः ।। प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् ।।१।।
तत्राप्यन्नदानं महते फलाय । यतः-- अन्नं वै प्राणिनां प्राणाः, अन्नमोजः सुखैषधे । तस्मादन्नसमं दानं, न भूतं न भविष्यति ॥१॥ ददस्वान्नं ददस्वान्नं, ददस्वान्नं नराधिप !। सद्यः प्रीतिकरं लोके, कि दत्तेनापरेण ते ॥२, सगीताद्भुतरूपरम्यरमगीकर्पूरकस्तूरिका-श्रीखण्डागुरुवाजिवारणमणिस्वर्णादिवस्तुव्रजः ।
॥१७८॥
KXXXXXXXXXXXXXXXXXXXXXXXXXX