________________
प्रबन्धः ।
। १२॥
KXXXXXXXXX
कुमारपाल नीभ्यामूचे, राजन्! सिद्धचक्रवर्तिबिरुदं तव श्रुतं महदेतदत्र जगति तद् विलोक्यते, केन कलामन्त्रतन्त्रासनपवनधारणाऽ- |
णिममहिमाद्यष्टमहासिद्धिप्रकर्षेण ख्याप्यतेऽप्रतिहतप्रचारम्, इति परीक्षार्थं हिमवतोऽत्रागमनमावयोर्जानीहि । राजाऽपि--
निविषेणापि सर्पण कर्तव्या महती स्फटा । विष भवतु वा मा वा स्फटाटोपो भयंकरः ।। १ ।।
इति नीतिवित कलाकौशलं शनैः शनैर्दर्शयिष्यते भवतीभ्यां, परं संप्रति उत्तारक गम्यतां स्वस्थीभूयतां च, इति शीतलबहमानवचोभिरानन्द्य प्राहिणोत् कस्मिश्चिदावासे राजा । किमुत्तरमत्र देयम् ? एते योगिन्यौ विकटे, अत्र किमप्यतिशायि कलादिदर्शनं विना न छुटयते; बिरुदं च याति, इति चिन्तातुरो दिने दिने क्षीयते । षण्मासा यत्तद्वचनविन्यासराजकार्यव्यग्रतादिनाऽतिवाहिताः । नगरेऽनेके कलाविदः, परं न स कोऽपि यो योगिनीव्याघ्रीमुखे तिष्ठति । सर्वः कोऽपि सुखे सखा दुर्घटे न कोऽपि । यतः--
सह परिजनेन विलसति, धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं, त्रिपुरजिता सह सुरैरमृतम् ।।१।।
एकदा सान्तसचिवेन दुर्बलत्वकारणं पृष्टः श्रीजयसिंहदेवः । सिद्धिबुद्धिसमागमादि सर्वं वृत्तान्तमाह, मन्त्रिन्! किमत्रो*त्तरं दातव्यम् । एवं पत्तने सर्वत्र वार्ता विस्तृता, यदुत राजा संकटे पपात । अत्र राज्ये सर्वः कोऽपि निष्कलो राजवर्गः ।
अत्रावसरे हरिपालसाकरियाको गवाक्षस्थः पुत्रसज्जनेन पृष्टः । तात ! महत्संकटं राज्ञः, कथं निर्मेडको भावी ?। उक्त हरिपालेन, एवंविधाः कुहेडकाः कर्णदेववारके बहवोऽपि मया निर्मेडिताः, परमधुनाऽस्माकं राजकुले कोऽपि मानं न दत्ते । राजाऽपि नटविटवेश्याप्रियो विलोकयिष्यते तटस्थैरेव कातुकं, इत्येषा वार्ता गृहं व्रजता सान्तूमन्त्रिणा श्रुता
KXXXXXXXXXXXXXXXXXXXXXXXXXX
॥१२॥
XXXXXXXXXXX