SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥११॥ अर्थकदा जयसिंहदेवो विजययात्रां कुर्वन रैवताचलासन्नां वामनस्थली प्राप। तत्र परशुराममाकार्य दण्डमयाचत । दण्डाधिपेनोक्तम्, रैवताचलेऽभयस्थाने स्थापितोऽस्ति । ततो विलिङ्गाकारोऽयं गिरिरिति निषिद्धोऽपि श्रीकर्णदेवगमनं श्रुत्वा रैवतं गतः । गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमि पूजयित्वा धर्मशालायामुपविश्य प्रासादरम्यतामालोक्योचे, . धन्यौ मातापितरौ तस्य येनेदं कारितम् । अत्रावसरे परशुराम उवाच, राजन् ! पृथिव्यां श्रीकर्णदेवमयणल्लदेव्यौ धन्ये, ययोः सूनुर्भवान् । श्रीकर्णविहारोऽयं मत्पित्रा कारितो वर्षत्रयोद्ग्राहितव्ययेन । एवं यदि प्रासादेच्छा तदा प्रासादः । अथवा द्रव्येच्छा तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति । तन्निशम्य प्रमुदितो राजा भव्यं सजनेन कृतं, यदत्र कृत्यं । भवति तत्सर्वं कारयेत्यादिश्य द्वादशग्रामान् देवपूजाय दत्वा शत्रुञ्जयं जगाम। आकृष्टखड्गविनिषिद्धो रात्रौ समारुरोह । श्रीयुगादिदेवं पूजयित्वा स्तुत्वा द्वादशग्रामान देवदाये दत्वा श्रीअणहिल्लपत्तने समागात् । क्रमेण मालवकादिदेशेषु निजाज्ञापटहं दापयित्वा श्रीजयसिंहदेवो राज्यं पालयति स्म । सिद्धचक्रवतिविरुदं जगत्प्रसिद्ध बभार । अथैकदा श्रीपत्तनपुरीया ब्राह्मणा अष्टषष्टितीर्थेषु यात्रां कुर्वन्तो हिमाचलपर्वतं गताः । तत्रौषधीग्रहणार्थं भ्रमद्भिदृष्टोऽचलनाथयोगी । नत्वोपविष्टाः पृष्टा योगिना, कुतो वः समागमः । तैरुक्तम्, श्रीपत्तननगरात् । तदवसरे योगिपार्श्वस्थाभ्यां सिद्धिबुद्धिभ्यां योगिक्षुल्लिकाभ्यां पृष्टम्, तत्र को राजा । ब्राह्मणरूचे, श्रीसिद्धचक्रवर्ती जयसिंहदेवो राजा। सिद्धचक्रवतिबिरुदश्रवणमात्रादेव रुष्टे सिद्धिबुद्धी असहमाने राज्ञः परीक्षार्थ गगनाध्वना कदलीपत्रासने सभायामायाते। राज्ञा सपरिकरेणाभ्युत्थाय नमस्कृते, सौवर्णासने उपवेश्य पृष्टे, कुतः केन हेतुना भगवतीभ्यामद्य ममानुग्रहोऽकारि? । योगि ॥१०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy