________________
कुमारपाल
।।१०।।
सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः ।। १७ ।। तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ।। १८ ।। दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकप्रस्थितानां पाथेयं धर्म एव यत् ।। १९ ।। दीपे म्लायति तैलपूरणविधिस्तोयं द्रुमे शुष्यति, प्रावारो हिमसंगमे जलगृहं ग्रीष्मज्वरोजागरे । निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजं, धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥ १ ॥
अम्बाऽनुज्ञां ततो लब्ध्वा पाषाणस्य खनि च सः । श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् ।। २० ।। ज्येष्ठस्य सितपञ्चम्यां शिरोर्त्या सोऽथ सज्जनः । अम्बादेवीवचः स्मृत्वा जातपश्चत्वनिश्चयः ।। २१ ।। आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे। भद्रेश्वरग ुरोः पार्श्वे संस्तारव्रतमग्रहीत् ।। २२ ।। दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः । दिवं जगाम पुत्रोऽस्य ध्वजारोपं व्यधापयत् ।। २३ ।।
अत्रावसरे श्रीकर्णराजो द्वयो राज्ञो कत्रावस्थानं युक्तमिति, आशापल्लीनिवासिनं प्रबलभुजबलशालिनं लक्षभिल्लयुतमाशाकं भिल्लं जित्वा कर्णावतीं पुरीं विधायैकोनत्रिंश २९ द्वर्षाणि राज्यं कृत्वा पञ्चत्वमगात् । अत्रान्तरे परशुरामेणाचिन्ति । राजा जयसिंहनामा दण्डं सोधयिष्यति तदा किं भावीति विचिन्त्य तद्वामनस्थलीनिवासिव्यवहारिणामग्रे • कथितम् । तैरपि तद्दण्डदानं प्रतिपन्नम् ।
अथ पञ्चत्वमापन्ने कर्णदेवे महीपतौ । श्रीमान् जर्यासहदेवः स्वयं राज्यमपालयत् ।। २४ ।। ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो बर्बरकश्चास्य सिद्धराजस्ततोऽभवत् ।। २५ ।।
प्रबन्धः ।
112011