________________
का
XXXXXXXXXXXXXXXXSIXXXX
भूपतिः । सार्धं धनेश्वराचार्यैरारूढो रवताचलम् ॥ १२ ॥ श्रीनेमिभवन जीर्ण वीक्ष्य काष्ठमयं ततः । सज्जनो गुरुणाऽऽदिष्टो जीर्णोद्धारकृते कृती ॥ १३ ॥ सज्जनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः । चतुर्विधेन सङ्घन साद्ध राजानमन्वगात् ।। १४ ।। यतः-- जिणभवणाई जे उ-द्धरंति भत्तीए सडिअपडिआइं । ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ॥१॥
अथवा-- अप्पा उद्धरिउ चिअ, उद्धरिओ तेहि तह य निअवंसो । अन्ने अ भविअसत्ता, अणुमोअंता य जिणभवणं ।।१।। माणिक्यहेमरत्नाद्यः, प्रासादान् कारयन्ति ये । तेषां पुण्यकमूर्तीनां, को वेद फलमुत्तमम् ? ।।२।। काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ।। ३ ।।
युक्तमिदमुपदेशकथनं साधूनाम् । यतः-- "रायाअमञ्चसिट्टीकुडंबिए वावि देसणं काउं । जिष्णे य जिणाययणे, जिणकप्पी वावि कारवइ ॥१॥"
तथा-- - "नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥"
जीर्णोद्धाराय विज्ञप्तः सज्जनेन नृपस्ततः । सुराष्ट्रोद्गाहितं दत्वाऽणहिल्लपुरमाययौ ।। १५ ।। अथ भद्रेश्वरः सूरिः सज्जनेन सहाष्टमम् । तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनधीः ।। १६ ।। प्रत्यक्षीभूय साऽप्यूचे युवाभ्यां किमहं स्मृता ।
X
॥९॥