SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ।।१३।। KXXXXXXXXXXXXXXXXXXXXXXXXXX गवाक्षाधः समायातेन । निवेदितं राज्ञः । प्रभाते वारत्रयं पृथक् पृथग आकारितः । 'धर्मध्यानान्तरायो राजसेवा'इति विज्ञापितं राज्ञे । राजाऽपि ज्ञातबहुमानदानादिवृत्तान्तो मन्त्रिणमाकारणार्थं प्रहितवान् । मन्त्री सुखासनाधिरूढो गतो हरिपालगृहम् । सबहुमानमाकारितो वक्ति, देवपूजावसरे सांप्रतं सार्मिकस्त्वमतिथीभूतो बान्धव एव । यतः-- अतिथिश्चापवादी च, द्वावेतौ मम बान्धवौ । अतिथिः स्वर्गसोपान-मपवादी च पापहृत् ॥१॥ इत्युक्त्वा देवपूजां कारितो भोजितश्च, सत्कृत्य साद्ध गतो राज्ञः समीपे साकरिकहरिपालः । राज्ञोक्तम्, काकाऽद्य कल्ये सर्वावसरे नागम्यते । हरिपाल:-- सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति धर्मम् । आपद्गता यौवननिर्गताच, आर्ता नरा धर्मपरा भवन्ति ।।१।। 'वृद्धा नारी पतिव्रता' इति न्यायादद्य काका कथयसि, अन्यदा नामापि न गृह्णासि । राजा पूर्ण हासेन, तथा कुरु यथा न याति मे नामेति । विज्ञप्तं हरिपालेन, देव ! दाप्यतामर्जुनचन्द्रहासलोहरिकामुष्टिः । दापिता राज्ञा । दिनान्यष्टावधिः । हरिपालेन स्वबुद्धया शर्कराफलकं चन्द्रहासलोहतुल्यं कृतम् । गजवल्लयाद्याकाराः प्रकटाः । प्रतिकोशः स्वर्णरत्नमयः सान्तूमन्त्रिणा कारितः । एवं प्रपञ्चेन शर्करामयीं छुरिकां कृत्वा राज्ञे निवेद्य प्रभाते सर्वराजन्यसमक्षमाकारिते योगिन्यौ । अद्य वादो योगिनीभिः सह भावीति मिलिताः सर्वेऽपि नागराः । अत्र प्रस्तावे सान्तुहरिपालाभ्यां समीपस्थिताभ्यां विज्ञप्तम् । देव ! सिद्धचक्रवर्तिन् ! योगिन्योर्बहुतरः कालो गतः, अद्य काऽप्यपूर्वा कला दर्यताम, प्रतिकला च विलोक्यताम्, अद्य कौतुकं सभ्यानां पूर्यताम्, इति विज्ञप्तो राजा । भो योगिन्यौ ! कथ्यतां का का कला XXXXXXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy