SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६५॥ · ततो भो महत्तराः ! मया मृतस्वग्रहणं तृतीयव्रतप्रतिपत्त्यवसरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य । व्यवहारिणो गृहं गृहसारं च विलोकयामः, इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तद्गृहमाजगाम राजकुञ्जरः । तदनू सौवर्णकलशपरम्पराक्वणकिङ्किणीक्वाणवाचालितव्योममण्डलकोटिध्वजावलिहस्तिशालादानशालातूरगशालादिविराजितं तं कुबेरगृहं विलोक्य विस्मयस्मेरहृदयो महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः । तद्रमणीयतां विलोक्य प्राह नृपः पर्यायस्तुहिनाचलस्य यमकं पीयूषकुण्डस्य च, क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च । वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृह-स्यार्हचैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ।।१।। तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्नसौवर्णकलशस्थालारात्रिकमङ्गलप्रदीपादिदेवपूजोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा. गुरुपादकमलमूले, गृहमेधिजनोचितानिमानियमान् । प्रतिपद्यते कुबेरो, वैराग्यतरङ्गितस्वान्तः ।। १ ।। जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे परस्त्री! यामि तथा त्यजामि मदिरां मांसं मधु म्रक्षणम् । नक्तं नानि परिग्रहे मम पुनः स्वर्णस्य षट्कोटयस्तारस्याष्टतुलाशतानि च महार्हाणां मणीनां दश ॥ २ ॥ कुम्भखारीसहस्रे द्वे, प्रत्येकं स्नेहधान्ययोः । पञ्चायुतानी ५०००० बाहानां, सहस्रमपि हस्तिनाम् ।। ३ ।। ।।१६५।। अयुतानि गवामष्टौ, ८०००० पञ्च पञ्च शतानि च । हलासद्मनां यानपात्राणामनसामपि ।। ४ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy