________________
कुमारपाल
। १६४।।
पाटितं च पट्टकपत्रम् । तथा-
निः शकैः शक्तिं न यन्नृपतिभिस्त्यक्तुं क्वचित्प्राक्तनैः पत्न्याः क्षार इव क्षते पतिमृतौ यस्यापहारः किल । आपाथोधि कुमारपालनृपतिर्देवो रुदत्या धनं बिभ्राणः सदयं प्रजासु हृदयं मुञ्चत्ययं तत्स्वयम् ॥ १ ॥ इति मृतस्वपरिहारपटहो दापितोऽष्टादशदेशेषु । अथान्यदा सर्वावसरसभामुपेयुषि श्रीचौलुक्यदेवे प्रतिहारः प्राहः - देव ! महाजनो द्वारे तिष्ठति देवदर्शनार्थी। राजा - प्रवेशय सद्यः । ततः प्रतिहाराहूताश्चत्वारो महत्तरा आगत्य राजानं प्रणम्य लब्धासना वैलक्ष्योपलक्षिता उपविष्टाः । राजा - को हैतुरद्य राजसभाऽऽगमे ? किमिदं वैलक्ष्यमिति । कि कोऽपि पराभवोऽसमाधिर्वोपद्रवो वा कोऽपि ? । तदनु महाजना:- कुतः प्रजानां राजेन्द्र !, त्वयि शासति मेदिनीम् । पराभवोऽसमाधिर्वा, जायते जनवत्सल ! ।। १ ।। कदाचिदन्धकारः स्याद्विश्वे भास्वति भास्वति । परं त्वदुदये स्वामिन् ! न किविदसमञ्जसम् ।। २ ।। परमत्रत्यो गूर्जरनगरवणिग्मूर्द्धन्यः कुबेरश्रेष्ठि देवपादविदितो बहुस्वर्णकोटिध्वजः समुद्रे समागच्छन् कथाशेषतया स्वामिपादानामसेवकतामृगादिति तत्परिच्छदो निष्पुत्र आक्रन्दन्नस्ति । तद्गृहद्रव्यं राजा यद्यात्मसात्कुरुते तदा तस्योर्द्धदेहिकं क्रियते । किवत्तद्धनं ? इति पृष्टेऽतिपुष्कल मित्याहुस्ते महत्तराः । ततः कृपापरिणीतो राजा स्वचेतसि चिन्तितवानेवम् -
आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशलक्षैः, केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति । क्रन्दन्नारीजघनवसनक्षेपपापोत्कटानामा:, किं तेषां हृदि यदि कृपा नास्ति तत्कि त्रपाऽपि ।। १ ।।
प्रबन्धः ।
।। १६४।।